This page has not been fully proofread.

T
 
१०० ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ५३ व्याख्या
 
चक्र चक्रस्य नास्त्र्या न च खलु परशोर्न क्षुरप्रस्थ नासे-
र्यद्वक्त्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि ।
प्रोतात्प्रासेन मूर्ध्नः सघृणम भिमुखायातया कालरात्र्याः'
कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः ॥ ५३॥
 
कुं० वृ० – कालरात्र्या: आननाब्जं वो युष्मभ्यं कल्याणानि सृजतु ददातु,
जगत्संहारकारिणी यत्र प्रलीयते जगत् कालरात्रिः कालभगिनी जगत्प्राणाधि-
देवतेति पुराणात्, किंविशिष्टं तत् यत् तदसृजो धारया वऋितं वक्रीकृतं तस्य
असृक् तदसृक् तस्य तदसृजः, प्रयमाशयो रुधिरस्य मुखप्रवेशाऽशङ्कया सघृण-
मिव मत्वा वक्रीकृतमित्यर्थः, किंविशिष्टया धारया अभिमुखमायातया सम्मुखमा-
गतया, कस्मान् मूर्द्धन: शिरस:, किंभूतात् प्रासेन कुन्तेन प्रोतात् विद्धात्,
कस्य सम्बन्धिनो महिषस्य, तदिति किं यत् चक्रस्य प्रस्च्या धारया वक्रं न
चक्रे, च पुनः परशो: कुठारस्य अस्त्र्या नावकृतं चक्रे; अपि च, क्षुरप्रस्य बाण-
विशेषस्यापि प्रस्च्या इति सर्वत्र सम्बन्ध: ; अन्यच्च, प्रसे: खजस्य धारया
विद्विषति शत्रौ श्राजिभाजि सति संग्रामसेविनि सति, किंभूते तस्मिन् कैतवाविष्कृत-
महिषतनी कैतवेन घूर्ततया श्राविष्कृता महिषस्य तनुः शरीरं येन स तथा
तस्मिन् ॥५३॥
 
सं० व्या० - ५३. – चक्र चक्रस्येति ॥ प्राननमेवाव्जं माननाब्जं वदनपद्म
तत् कालरात्र्याः भगवत्याः सम्बन्धि, वो युष्माकं कल्याणानि श्रेयांसि सृजतु
विदधातु, किविशिष्टं वऋितं वक्रं कृतं धारया असृजो रुधिरस्य, किंभूतया तया
अभिमुखया सम्मुखागतया कस्मान्मूर्द्धनः शिरसः किमवस्थात् प्रोतात् प्रासेनायुध-
विशेषेण प्रास्य इति प्रासः प्रपूर्वादस्यतेः कर्म्मणि द्य[य]त्र, कथं वऋितं सघृणं
यथा भवत्येव, यदा आननाब्जं वक्रं न चक्रे न कृतं चक्रस्यास्त्र्या धारया न च
खलु स्फुटं परशो: कुठारस्य न क्षुरप्रस्यायुधविशेषस्य नासेः खङ्गस्यास्त्र्याननाब्जं
वक्रं न चक्रे, महिषस्य तनुः महिषतनुः कैतवेन व्याजेनाविष्कृता प्रकटीकृता
महिषतनुर्येन सः कैतवाविष्कृतमहिषतनुः तस्मिन् विद्विषति शत्री आजिभाजि
युद्धजुषि सति युध्यमानेन महिषेण तत्पक्षैर्वासुरैश्चकादिधारया देवीमुखं न
वक्रमित्यर्थः ॥५३॥
 
१. का०. कालरात्र्या ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy