This page has been fully proofread once and needs a second look.

शूले शैलाविकम्पं[^१] न निमिषितमिषौ पट्टिशे साट्टहासं
प्रासे सोत्प्रासमव्याकुलमिव[^२] कुलिशे जातशङ्कं न शङ्कौ ।
चक्रेऽचक्रं[^३] कृपाणे न कृपणमसुरारातिभिः पात्यमाने
दैत्यं पादेन देवी महिषितवपुषं पिंषती वः पुनातु ॥५२॥
 
कुं. वृ.--देवी वः पुनातु पवित्रीकरोतु, किं कुर्व्वती दैत्यं पिंषती, केन
पादेन किंविशिष्टं दैत्यं, महिषितवपुषं, आयुधानि त्यक्त्वा किमिति पादेन
पिपेष इत्याह विशेषणद्वारेण, किंविशिष्टं, शूले शैलाविकम्पं शैल इव अविकम्पः
शैलाविकम्पः तं पर्व्वतवत् अविचलं; असुरारातिभिर्देवैः शूले पात्यमाने सति
अयं सर्व्वत्र सम्बध्यते; अन्यच्च, इषौ बाणे न निमिषितं न सुचालितनेत्रं अकृत-
नेत्रस्पन्दनमित्यर्थः; अपि च, पट्टिशे आयुधविशेषे साट्टहासं, प्रासे कुन्ते सो(33b)-
त्प्रासं मनाक् स्मितं, सोत्साहमिव, कुलिशे वज्रेऽपि अव्याकुलं अत्रस्तं; अन्यच्च,
शङ्कौ प्रहरणविशेषे न जातशङ्कं न उत्पन्नभयं; अन्यच्च, चक्रे अचक्रं यथा-
स्थितमेव अविकृततनुं; अपि च, कृपाणे खड्गे प्रक्षिप्यमाणे न कृपणं न दीनं,
अपि तु सहर्षम् ॥५२॥
 
सं० व्या०--५२. शूले शैलाधिकम्पमिति ॥ देवी भगवती वो युष्मान्
पुनातु पवित्रीकरोतु, किं कुर्वती पिंषती चूर्णयन्ती पादेन चरणेन दैत्यं दितिजं,
किंविधं महिषितं वपुर्येन तं तथोक्तं, असुराणामरातयोऽसुरारातयो देवास्तैः यथा-
यथं पात्यमाने सति शूलादौ आयुधे ईदृग्विधं दैत्यं पिंषती, शूले शैलाधिकम्पं
हरेण शूले पात्यमाने शैलस्येवाधिकं यो यस्य तं तथोक्तं, इषौ शरे न निमिषितं
लोचनं, पट्टिशे प्रहरणे साट्टहासं, सह अट्टहासेन वर्तत इति साट्टहासं, प्रासे
सोत्प्रासं सोपहासं, कुलिशे वज्रे अव्याकुलमिव निराकुलं यथा, शङ्कौ प्रहरणे
पात्यमाने न जातशङ्कं न जातत्रासं, जाता शङ्कास्येति विग्रहः, कृपाणे खड्गे
पात्यमाने वक्त्रं मुखं कृपणं दीनं न चक्रे न कृतवान्, दैत्येन्द्रस्येति प्रथम-
सम्बन्धः ॥५२॥
 
------------------------
[^१] ज० शैलाधिकम्पं ।
[^२] ज० का० सोत्प्रासमव्याकुलमपि ।
[^३] ज० वक्त्रं चक्रे । का० चक्रेऽवक्रं; वक्त्रं कृपाणमित्यपि पाठः काव्यमालापुस्तके
संसूचितः ।