This page has been fully proofread once and needs a second look.

पद्याङ्क ५२ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृतिसमेतम्
 
शूले शैलाविकम्पं'[^१] न निमिषितमिषौ पट्टिशे साट्टहासं

प्रासे सोत्प्रासमव्याकुलमिव[^२] कुलिशे जातशङ्कं न शङ्कौ ।
चकचक

चक्रेऽचक्रं[^३]
कृपाणे न कृपणमसुरारातिभिः पात्यमाने
 

दैत्यं पादेन देवी महिषितवपुर्णषं पिंषती वः पुनातु ॥५२॥
 
3
 

 
[ २९
 

 
कुं. वृ.--देवी वः पुनातु पवित्रीकरोतु, किकिं कुर्व्वंती दैत्यं पिपिंषती, केन

पादेन किंविशिष्टं दैत्यं, महिषितवपुषं, श्रायुधानि त्यक्त्वा किमिति पादेन

पिपेष इत्याह विशेषणद्वारेण, किकिंविशिष्टं, शूले शैलाविकम्पं शैल इव अविकम्प:
पः
शैलाविकम्पः तं पर्व्वतवत् अविचलं; असुरारातिभिर्देवैः शूले पात्यमाने सति

अयं सवंर्व्वत्र सम्बध्यते; अन्यच्च, इषौ बाणे न निमिषितं न सुचालितनेत्रं प्रकृत-

नेत्रस्पन्दनमित्यर्थः; अपि च, पट्टिशे आयुधविशेषे साट्टहासं, प्रासे कुन्ते सो (33b) -
-
त्प्रासं मनाक् स्मितं, सोत्साहमिव, कुलिशे वज्रेऽपि अव्याकुलं अत्रस्तं; अन्यच्च,

शङ्कोकौ प्रहरणविशेषे न जातशङ्कं न उत्पन्नभयं; अन्यच्च, चक्रे अचक्रं यथा-

स्थितमेव अविकृततनुं; अपि च, कृपाणे खड्नेगे प्रक्षिप्यमाणे न कृपणं न दीनं,

अपि तु सहर्षम् ॥५२॥
 
T
 

 
सं० व्या० - --५२. शूले शैलाधिकम्पमिति ॥ देवी भगवती वो युष्मान्

पुनातु पवित्रीकरोतु, किं कुर्वती पिपिंषती चूर्णयन्ती पादेन चरणेन दैत्यं दितिजं,

किंविधं महिषितं वपुर्येन तं तथोक्तं, असुराणामरातयोऽसुरारातयो देवास्तैः यथा-

यथं पात्यमाने सति शूलादौ आयुधे ईदृग्विधं दैत्यं पिपिंषती, शूले शैलाधिकम्पं

हरेण शूले पात्यमाने शैलस्येवाधिकं यो यस्य तं तथोक्तं, इषोषौ शरे न निमिषितं

लोचनं, पट्टिशे प्रहरणे साट्टहासं, सह श्रट्टहासेन वर्तत इति साट्टहासं, प्रासे

सोत्प्रासं सोपहासं, कुलिशे वज्रे श्रव्याकुलमिव निराकुलं यथा, शङ्कोकौ प्रहरणे

पात्यमाने न जातशङ्कं न जातत्रासं, जाता शङ्कास्येति विग्रहः, कृपाणे खड्ङ्गे

पात्यमाने वक्त्रं मुखं कृपणं दीनं न चक्रे न कृतवान्, दैत्येन्द्रस्येति प्रथम-

सम्बन्धः ॥५२॥
 

 
------------------------
[^
.] ज० शैलाधिकम्पं ।
 

[^
,] ज० का० सोत्प्रासमव्याकुलमपि ।
 

[^
] ज० वक्त्रं चक्रे । का० चक्रेऽवक्रं; वक्त्रं कृपाणमित्यपि पाठः काव्यमालापुस्तके

संसूचितः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy