This page has not been fully proofread.

पद्याङ्क ५२ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृतिसमेतम्
 
शूले शैलाविकम्पं' न निमिषितमिषौ पट्टिशे साट्टहासं
प्रासे सोत्प्रासमव्याकुलमिव कुलिशे जातशङ्क न शकौ ।
चकचक कृपाणे न कृपणमसुरारातिभिः पात्यमाने
 
दैत्यं पादेन देवी महिषितवपुर्ण पिंषती वः पुनातु ॥५२॥
 
3
 

 
[ २९
 
कुं. वृ. – देवी वः पुनातु पवित्रीकरोतु, कि कुव्वंती दैत्यं पिषती, केन
पादेन किंविशिष्टं दैत्यं, महिषितवपुषं, श्रायुधानि त्यक्त्वा किमिति पादेन
पिपेष इत्याह विशेषणद्वारेण, किविशिष्टं, शूले शैलाविकम्पं शैल इव अविकम्प:
शैलाविकम्पः तं पर्व्वतवत् अविचलं; असुरारातिभिर्देवैः शूले पात्यमाने सति
अयं सवंत्र सम्बध्यते; अन्यच्च, इषौ बारणे न निमिषितं न सुचालितनेत्रं प्रकृत-
नेत्रस्पन्दनमित्यर्थः; अपि च, पट्टिशे आयुधविशेषे साट्टहासं, प्रासे कुन्ते सो (33b) -
त्प्रासं मनाक् स्मितं, सोत्साहमिव, कुलिशे वज्रेऽपि अव्याकुलं अत्रस्तं; अन्यच्च,
शङ्को प्रहरणविशेषे न जातशङ्कं न उत्पन्नभयं; अन्यच्च, चक्रे अचक्रं यथा-
स्थितमेव अविकृततनुं; अपि च, कृपाणे खड्ने प्रक्षिप्यमाणे न कृपणं न दीनं,
अपि तु सहर्षम् ॥५२॥
 
T
 
सं० व्या० - ५२. शूले शैलाधिकम्पमिति ॥ देवी भगवती वो युष्मान्
पुनातु पवित्रीकरोतु, किं कुर्वती पिषती चूर्णयन्ती पादेन चरणेन दैत्यं दितिजं,
किंविधं महिषितं वपुर्येन तं तथोक्त, असुराणामरातयोऽसुरारातयो देवास्तैः यथा-
यथं पात्यमाने सति शूलादौ आयुधे ईदृग्विधं दैत्यं पिषती, शूले शैलाधिकम्पं
हरेण शूले पात्यमाने शैलस्येवाधिकं यो यस्य तं तथोक्त, इषो शरे न निमिषितं
लोचनं, पट्टिशे प्रहरणे साट्टहासं, सह श्रट्टहासेन वर्तत इति साट्टहासं, प्रासे
सोत्प्रासं सोपहासं, कुलिशे वज्रे श्रव्याकुलमिव निराकुलं यथा, शङ्को प्रहरणे
पात्यमाने न जातशङ्कं न जातत्रासं, जाता शङ्कास्येति विग्रहः, कृपाणे खड्ङ्गे
पात्यमाने वक्त्रं मुखं कृपरणं दीनं न चक्रे न कृतवान्, दैत्येन्द्रस्येति प्रथम-
सम्बन्धः ॥५२॥
 
१. ज० शैलाधिकम्पं ।
 
२, ज० का० सोत्प्रासमव्याकुलमपि ।
 
३० ज० वक्त्र चक्रे । का० चक्रेऽवक्रं; वक्त्रं कृपाणमित्यपि पाठः काव्यमालापुस्तके
संसूचितः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy