This page has been fully proofread once and needs a second look.

T
 
१८ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ५१ व्याख्या
 
कु
कुं० वृ० - -सा अम्बिका वोऽवतात्, या कीदृशी, ग्रह, यया अरिः शत्रुः

क्षुण्णः विचूर्णितः, किमभिधान: महिषः, किमिव तृणमिव, केन क्षुण्णः महिम्ना

आत्मीयप्रभावेन, किं कृत्वा वोवीक्ष्य दृष्टवा, एतदुक्तं भवति देव्याः सकोप-

दृष्ट्यावलोकनेनैव जित्वा चूर्णीकृत:तः; किंभूतः, अपिहितव्योमसीमा, अपिहितः

आकाशपर्यन्तो येन, पृच्छादिना व्योममार्गः इत्यर्थः, केन महिम्ना महत्वेन, कि
किं
कुर्व्वन् क्रीडा क्रोडाभिशङ्कां विदधत्, क्रीडार्थं क्रोड :डः क्रीडाक्रोड :डः तस्य सम्भावना

शूकरोऽयमिति तां विदधत्; अन्यच्च, किंभूतः पीवा स्थूलतर: प्ररः अतिशयार्थोऽत्र

दृश्यते, कै:कैः पातालपङ्क:कैः पातालकर्दमैः, किंभूतः सन् क्षयरयमिलितै कार्णवे-

च्छावगाहः, क्षये प्रलयसमये यो रयो वेगः तेन मिलितः सञ्जातो यः एकार्णवः

एक: समुद्रः तस्मिन्नेवेच्छया विस्तीर्णत्वात् स्वेच्छयाऽवगाहो विलोडनं यस्य स

तथाविध एतदुक्तं भवति; चत्वारोऽपि समुद्रा लीलामात्रेणावगाह्य पङ्कीकृताः,

ङ्कानां तु बहुत्वं समुद्रबहुत्वात्; अन्यच्च, किंभूतः विलयन विगलञ्छृङ्ग-

शून्योत्तमाङ्गः, विगलन्ती ( ? ) च ते शृङ्गे च विगलच्छूछृङ्गे विलयनेन विलीनतया ये

विगलच्छृङ्गे ताभ्यां रहितं शून्यं उत्तमाङ्गं यस्य स तथाविधः, कुतस्तयोर्विलयनं

दाहात्, कस्य नेत्रत्रयाग्ने अर्थाद्देवीसम्बन्धिनः अयमभिप्रायः, यत एव क्रोडाभिशङ्क ।
कां
जनयति, प्रत एव देव्या यत्नेन वीक्ष्य क्षुण्णो महिषो दुरात्मेति ॥५१॥
 

 
सं० व्या०--५१. कृत्वेति ॥ सा अम्बिका गौरी वो युष्मान् श्रवतात् रक्षतु,

यया अरिमंर्महिषः तृणमिव तृणवत् क्षुण्ण: संपिष्टः, किकिं कृत्वा वीक्ष्यावलोक्य, किं कुर्वन्

महिषः क्षुण्णः विदधत् क्रीडाक्रोडाभिशङ्कां कां, क्रीडद्य:यः क्रोड:डः शूकररूपो हरि
-
स्तस्याभिशङ्कां भ्रान्तितिं कुर्वन्, किंभूतः पिहितव्योमसीमा व्योम आकाशं तस्य

सीमा अवधिर्व्यायोमसीमा स तथोक्तः, केन पिहितव्योमसीमा महिम्ना महत्वेन, कि
किं
कृत्वा क्रीडाक्रोडाभिशङ्कां विदधत् तदुच्यते, कृत्वा पातालेत्यादि, क्षये रयः प्रलय-

वेगस्तेन मिलितः स चासोसौ एकार्णवश्च क्षयरयमिलितै कार्णवः सर्वेवैरेव समुद्रैरेक-

समुद्रो जात इत्यर्थः, इच्छयाऽवगाहः क्षयरयमिलितैकार्णवेच्छावगाहः तं पाताल-

पङ्के रसातलकर्द्दमे कृत्वा विधाय एतदुक्तं भवति, प्रादिवराहः प्रलयमिलितैकार्णवे

इच्छावगाहं कृतवान् श्रयं तु पातालपङ्के तथा कृतवान् इति कथंभूतः क्रीडा-

क्रोडाभिशङ्कां विदधत्, विलयत् विगलच्छृङ्गशून्योत्तमाङ्गः विलयनं विहृति-

र्
विलयने विगलने विनष्यतीत्येवं शृङ्गेव विलयनविगलच्छृङ्गे ताभ्यां रहित-

मुत्तमाङ्गं मूर्द्धा यस्य स तथोक्तः, कुतो विलयनं दाहात् तापात्, कस्य नेत्रत्रयाग्ने:
नेः
देव्या यन्नेत्रत्रयं तदेवाग्निः, क्रोधावलोकनात् तस्य दाहादिति ॥५१॥
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-