This page has been fully proofread once and needs a second look.

पद्याङ्क ५०-५१ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत वृत्तिसमेतम्
 
[ ९७
 
कुं० वृ०--देवी वः पायात्, किं कृत्वा स्मित्वा, कथंभूता उच्चहासा इव,

क्व सति मरुतां देवानां निकायो यस्य स तस्मिन्; केषु सत्सु ककुप्कुञ्जरेषु

महिषस्य श्रुतिकुहरपुटं विशत्सु सत्सु, ककुप्सु कुञ्जराः तेषां श्रुतिकुहरं विवरं तस्य

पुटं; कस्माद्विशत्सु कुञ्जीजौत्सुक्यात् कुञ्जोत्कण्ठया; अन्यच्च, स्मरमुषि स्मरहरे

द्राक् शी ( 33a) घं]घ्रं पृष्ठाधिरूढे सति, पृष्ठं मारूढः पृष्ठाधिरूढः, किंविशिष्टस्य

महिषस्य संहृतासोः, संहृता प्रसवो यस्य स तस्य, किंभूतस्य दशनरुचिकृताकाण्ड-

कैलासभासः, दशनानां दन्तानां रुचिः कान्ति:तिः तया कृता [काण्डे] अप्रस्तावे

अनवसरं कैलासस्य भास इव भासो यस्य स तथा तस्य ॥५
 

 
सं
 
० व्या० ५०. तुझाङ्गा इति ॥ देवी भगवती [वो युष्मान्] पायात् रक्षतु,

किंभूता उच्चहासेव, उच्चो हासो यस्याः सा उच्चहासा, क्व सति स्मरमुषि शङ्करे

पृष्ठाधिरूढे सति, कस्य महिषस्य, किकिंविशिष्ट [स्य ] संहृतासो:सोः [संहृता] असवः

प्राणाः यस्य सः संहृतासुः तस्य, पुनरपि किकिंविशिष्टस्य दशनरुचिकृताकाण्ड-

कैलासभासः, अकाण्डे प्रस्तावे कैलास: तस्य भा:सः तस्य भाः शोभाः प्रकाण्डकैलासभाः,

दशनरुचिभिः कृता अकाण्डकैलासभाः यस्य दशनरुचिकृताकाण्डकैलासभास्तस्य

दशन रुचिकृताकाण्डकैलासभासः, अत एव स्मरमुषि पृष्ठाधिरूढे इत्युक्त, कि
तं, किं
कृत्वा, दशनरुचिभिः कृताऽकाण्ड (कैलास ) शोभा महिषस्येति, स्मित्वा ईद्धसित्वा,

क्व सति स्मित्वा मरुतां देवानां निकाये सङ्घे प्रेतकाये परे (त) - -शरीरे शृङ्गयोरग्र-

भूमी:मीः तुङ्गा उच्चाः सृतवन्ति, कुञ्जौत्सुक्यं कुञ्जौत्सुक्यः, श्रुतिः कर्णः तस्य कुहरं

श्रुतिकुहरं तदेव पुट:टः पुटकः श्रुतिकुहरपुटः, क्व ककुप्सु कुजराः ककुप्कुञ्जरा:
राः
दिग्गजा इत्यर्थः, कुञ्जौत्सुक्यात् गह्वरौत्सुक्यात् उत्सुकतया श्रुतिकुहरपुटं द्राक्

क्षिप्रं ककुष्प्कुञ्जरेषु विशत्सु सत्सु, स्मित्वैव ( [इति] सम्बन्ध:धः, पर्वतस्य शृङ्गोऽय-

मिति तेनाभिप्रायेण महिषस्य तुङ्गाः शृङ्गा यत्र भूमी इत्याद्यभिहितमिति ॥५०॥
 

 

 
पीवा पातालपङ्कैः'[^१] क्षयरयमिलितै कार्णवेच्छाऽवगाहो
[^२]
दाहान्न`नेत्रत्रयाग्नेर्विलयन विगलच्छृङ्गशून्योत्तमाङ्गः ।

क्रीडाकोक्रोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना
 

वी क्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावतादम्बिका[^३] वः ॥५१॥
 

 
------------------------
[^
.] ज० का० कृत्वा पातालपङ्के
 

[^
.] ज० का० क्षयरय मिलितं कारतैकार्णवेच्छावगाहं । 'क्षयरयमिलित रतैरर्णवेच्छे'ति पाठोऽपि

काव्यमालाप्रतीतौ पादटिप्पण्यां प्रदर्शितः ।
 

[^
॥•] का० कालिकेत्यप्यतिरिक्तः पाठः ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy