This page has not been fully proofread.

पद्याङ्क ५०-५१ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत वृत्तिसमेतम्
 
[ ९७
 
कुं० वृ० –देवी वः पायात्, किं कृत्वा स्मित्वा, कथंभूता उच्चहासा इव,
क्व सति मरुतां देवानां निकायो यस्य स तस्मिन्; केषु सत्सु ककुपकुञ्जरेषु
महिषस्य श्रतिकुहरपुटं विशत्सु सत्सु, ककुप्सु कुञ्जराः तेषां श्रुतिकुहरं विवरं तस्य
पुट; कस्माद्विशत्सु कुञ्जीत्सुक्यात् कुञ्जोत्कण्ठया; अन्यच्च, स्मरमुषि स्मरहरे
द्राक् शी ( 33a) घं] पृष्ठाधिरूढे सति, पृष्ठं मारूढः पृष्ठाधिरूढः, किंविशिष्टस्य
महिषस्य संहृतासोः, संहृता प्रसवो यस्य स तस्य, किंभूतस्य दशनरुचिकृताकाण्ड-
कैलासभासः, दशनानां दन्तानां रुचिः कान्ति: तया कृता [शकाण्डे] अप्रस्तावे
अनवसरं कैलासस्य भास इव भासो यस्य स तथा तस्य ॥५॥
 
सं०
 
१० व्या० ५०. तुझा इति ॥ देवी भगवती [वो युष्मान्] पायात् रक्षतु,
किंभूता उच्चहासेव, उच्चो हासो यस्याः सा उच्चहासा, क्व सति स्मरमुषि शङ्करे
पृष्ठाधिरूढे सति, कस्य महिषस्य, किविशिष्ट [स्य ] संहृतासो: [संहृता] असवः
प्राणाः यस्य सः संहृतासुः तस्य, पुनरपि किविशिष्टस्य दशनरुचिकृताकाण्ड-
कैलासभासः, अकाण्डे प्रस्तावे कैलास: तस्य भा: शोभाः प्रकाण्डकैलासभाः,
दशनरुचिभिः कृता अकाण्डकैलासभाः यस्य दशनरुचिकृताकाण्डकैलासभास्तस्य
दशन रुचिकृताकाण्डकैलासभासः, अत एव स्मरमुषि पृष्ठाधिरूढे इत्युक्त, कि
कृत्वा, दशनरुचिभिः कृताऽकाण्ड (कैलास ) शोभा महिषस्येति, स्मित्वा ईपद्धसित्वा,
क्व सति स्मित्वा मरुतां देवानां निकाये सङ्घे प्रेतकाये परे (त) - शरीरे शृङ्गयोरग्र-
भूमी: तुङ्गा उच्चाः सृतवन्ति, कुञ्जौत्सुक्यं कुञ्जौत्सुक्यः, श्रुतिः कर्णः तस्य कुहरं
श्रुतिकुहरं तदेव पुट: पुटकः श्रुतिकुहरपुटः, वव ककुप्सु कुजराः ककुप्कुञ्जरा:
दिग्गजा इत्यर्थः, कुञ्जौत्सुक्यात् गह्वरौत्सुक्यात् उत्सुकतया श्रुतिकुहरपुटं द्राक्
क्षिप्रं ककुष्कुञ्जरेषु विशत्सु सत्सु, स्मित्वैव ( इति] सम्बन्ध:, पर्वतस्य शृङ्गोऽय-
मिति तेनाभिप्रायेण महिषस्य तुङ्गाः शृङ्गा यत्र भूमी इत्याद्यभिहितमिति ॥५०॥
 

 
पीवा पातालपङ कैः' क्षयरयमिलितै कार्णवेच्छाऽवगाहो
दाहान्न`त्रत्रयाग्नेर्विलयन विगलच्छृङ्गशून्योत्तमाङ्गः ।
क्रीडाकोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना
 
वी क्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावतादम्बिका वः ॥५१॥
 
१. ज० का० कृत्वा पातालपङ्क ।
 
२. ज० का० क्षयरय मिलितं कारणवेच्छावगाहं । 'क्षयरयमिलित रणवेच्छे'ति पाठोऽपि
काव्यमालाप्रती पादटिप्पण्यां प्रदर्शितः ।
 
३॥• का० कालिकेत्यप्यतिरिक्तः पाठः ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy