This page has been fully proofread once and needs a second look.


कुं० वृ०--चण्डिका वो युष्मान् पातु, किं कुर्व्वती, तं तथाविधं पतिं
चरणयोः पातयन्ती; कुतः त्रिसन्ध्यानतेः तिस्रश्च ताः सन्ध्याश्च त्रिसन्ध्याः तासु
नतिः तस्या नतेः, त्रिसन्ध्यानतिव्याजेनेत्यर्थः; एतदुक्तं भवति, परमेश्वरः त्रिसन्ध्यं
सन्ध्यास्थापनं करोति तत्कविरुत्प्रेक्ष्याह, सन्ध्यारूपा भगवती तं पतिं आत्मनः
पादयोः पातयन्तीव; तं कं येन पत्या कामं (द)हता भवान्याः प्राक् परिभवः कृतः
अपराधः कृतः । अतः सेर्ष्या इव सह ईर्ष्यया वर्त्तत इति सेर्ष्या, इति इवार्थो
दृश्यते; अन्यच्च, यया स्वं आत्मीयं नाम चन्द्रे भवशिरसि वर्त्तमाने चन्द्रशकले
लिखितं, केन मुहुर्वारंवारं गलितेन वाष्पेण, क्व मौलौ, किंलक्षणेन वाष्पेण, आहित-
कज्जलेन आरोपितकज्जलेन; किं कुर्व्वत्या, कृते प्रतिकृतं अभ्यधिकं कुर्व्वन्त्या,
कृतं अनुक्रियते यत् तत् प्रतिकृतं; अयमभिसन्धिः कामदहनलक्षणैकापराधः पतिः
कृतादप्यधिकं कुर्व्वन्त्या न केवलं पादयोः पातितः किन्तु अद्यप्रभृति तव दासो-
स्मीति स्वं नाम शिरसा धारितः(म्) ॥४६॥
 
सं० व्या०--४६. प्राक्काममिति ॥ सह ईर्ष्यया वर्तत इति सेर्ष्या चण्डिका
वो युष्मान् अवतु रक्षतु, कैः सेर्ष्या त्रिसन्ध्यानतैः तिस्रश्च ताः सन्ध्याश्च
त्रिसन्ध्याः तासां नतानि नमितानि त्रिसन्ध्यानतानि तैः, किं कुर्वती, चरणयोः
पातयन्ती, कं पतिं भर्तारं, येन पत्या प्राक् पूर्वं परिभवोऽभिभवः कृतः, किं
कुर्वता कामं दहता भस्मसात् कुर्वता, यया चण्डिकया नामेव, कमिव लिखितं
चन्द्रे चन्द्रमसि किं विदधत्या कृतमभ्यधिकमिति रक्तं कुर्वन्त्या, एतदुक्तं भवति
हरेण गौरी-प्रत्यक्षं कामगात्रं (दग्धं ) तथा कामं जनयन्त्या सेर्ष्यया सः पादयोः
पातित इति कृतस्याभ्यधिकं प्रतिकृतमिति, केन लिखितं <error>बाष्पेणाश्रुजलेन </error> <fix>वाष्पेणाश्रुजलेन</fix> मौलौ
पादपतितस्य पत्युश्चूडायां मुहुःपुनःपुनर्मुक्तेन अत एव चन्द्रो नामेव लिखितं
इत्युक्तं, वस्तुत्वाच्चन्द्रस्येति, किंभूतेन <error>बाष्पेण </error> <fix>वाष्पेण </fix>आहितकज्जलेन आहितं न्यस्तं
(कज्जलं) यत्र तेन तथोक्तेनेति ॥४९॥
 
तुङ्गां शृङ्गाग्रभूमिं[^१] श्रितवति मरुतां प्रेतकाये[^२] निकाये
कुञ्जौत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्ककुप्कुञ्जरेषु ।
स्मित्वा वः संहृतासोर्दशनरुचिकृताsकाण्डकैलासभासः
पायात् पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥५०॥
 
----------------------
[^१] ज०-तुङ्गाः शृङ्गाग्रभूमीः ।
[^२] 'प्रोतकाये' इत्यपि पाठः काव्यमालाप्रतेष्टिपप्ण्यां प्रदर्शितः ।