2023-03-31 06:12:50 by manu_css
This page has been fully proofread once and needs a second look.
वृद्धोक्षो न क्षमस्ते भव भवतु[^१] भवद्वाह एषोऽधुनेति
क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य ।
दन्तज्योत्स्नावितानैरतनुतमतनुर्न्यक्क्कृतार्थेन्दुभाभि[^२]-
र्गौरो गौरेव जातः क्षणमिव महिषः साऽवतादम्बिका वः ॥४८॥
कुं० वृ०--सा अम्बिका त्रिभुवनजननी वोऽवतात् रक्षतु, सा किं(32b)भूता
यया देवं महेश्वरं प्रति महिषः झटिति शीघ्रं पादेन इति क्षिप्तः, एतेन देवी-
चरणस्य महत्त्वं ख्याप्यते, महिषस्यैव लघुत्त्वं; किं कृत्वा, विहस्य ईषत् स्मितं
कृत्वा, कथंभूतं देवं केलिकान्तं क्रीडायां कमनीयं, इतीति किं, हे भव शम्भो !
अधुनेदानीं एष महिषः भववाहोऽस्तु भवतो वाहनं भवतु यतोऽयं वृद्धोक्षो न
क्षमो न तव वाहनयोग्यः वृद्धत्वात्, 'अचतुरेति' क्विन्निपातनात् वृद्धोक्ष इति,
किं विशिष्टो महिषः अतनुतमतनुः अत्यन्तं अतनुः, महती अतनुतमा तनुर्यस्य सा
तथा, बलीवर्द्दात् महिषो बलवान् क्षणं गौरेव जातः, बलीवर्द्द एवाभूत् शुक्लत्वात् ;
किंविशिष्टः दन्तज्योत्स्नावितानैर्गौरः दन्तानां ज्योत्स्ना उद्योतः तस्या
वितानानि विस्ताराः तैः किंविशिष्टैः न्यक्कृतार्धेन्दुभाभिः न्यक्कृताः नीचैः कृताः
अर्धेन्दोर्भाः प्रभाः कान्तयो यैस्तानि तैः ॥४८॥
सं० व्या०--४८. वृद्धोक्षो नेति ॥ सा अम्बिका गौरी वो युष्मान् अवतात्
रक्षतु, वृद्धश्चासावुक्षा च वृद्धोक्षः वृद्धो वृषो न क्षमस्ते न शक्तो भवतः, भव !
शङ्कर ! युष्मद्वाहो भवतो वाहनं एषोऽधुना भवतु, इत्येवं केलिकान्तं परि-
हासमन्योन्यं विहस्य विशेषेण हसित्वा, देवं प्रति शङ्करं अभि झटिति द्राक् पादेन
अद्रिणो महिषः क्षिप्तः अस्तः; महिषोऽप्यसौ न्यक्कृता निरस्ता अर्धेन्दोर-
र्धचन्द्रस्य भासो यैस्तथाविधैर्दन्तज्योत्स्नावितानैर्देशनविभासमूहैरतनुभिरकृत गौरः
शुक्लोऽतनुः स्थूलो गौरेव वृष एव क्षणमिव तत्क्षणं जातो भूतो भवति ॥४८॥
प्राक् कामं दहता कृतः परिभवो येन त्रिसन्ध्यानतेः[^३]
सेर्ष्या वोऽवतु चण्डिका चरणयोस्तं[^४] पातयन्ती पतिम् ।
कुर्व्वत्याऽभ्यधिकं कृते प्रतिकृतं[^५] मुक्तेन मौलौ मुहु-
र्बाप्पेणाहितकज्जलेन लिखितं स्वं नाम[^६] चन्द्रे यया ॥४९॥
-----------------------
[^१] ज० का०-- भवतु भव ।
[^२] ज० का०— रतनुभिरतनुर्न्यक्कृतार्द्धेन्दुभाभिः । 'अलभत तनुभि'रित्यपि पाठः
का०-- प्रतिटिप्पणे ।
[^३] ज० का०-- त्रिसन्ध्यानतैः ।
[^४] ज० का०-- स्वं ।
[^५] ज०-- कृतप्रतिकृतं ।
[^६] ज०-- नामेव ।
क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य ।
दन्तज्योत्स्नावितानैरतनुतमतनुर्न्यक्क्कृतार्थेन्दुभाभि[^२]-
र्गौरो गौरेव जातः क्षणमिव महिषः साऽवतादम्बिका वः ॥४८॥
कुं० वृ०--सा अम्बिका त्रिभुवनजननी वोऽवतात् रक्षतु, सा किं(32b)भूता
यया देवं महेश्वरं प्रति महिषः झटिति शीघ्रं पादेन इति क्षिप्तः, एतेन देवी-
चरणस्य महत्त्वं ख्याप्यते, महिषस्यैव लघुत्त्वं; किं कृत्वा, विहस्य ईषत् स्मितं
कृत्वा, कथंभूतं देवं केलिकान्तं क्रीडायां कमनीयं, इतीति किं, हे भव शम्भो !
अधुनेदानीं एष महिषः भववाहोऽस्तु भवतो वाहनं भवतु यतोऽयं वृद्धोक्षो न
क्षमो न तव वाहनयोग्यः वृद्धत्वात्, 'अचतुरेति' क्विन्निपातनात् वृद्धोक्ष इति,
किं विशिष्टो महिषः अतनुतमतनुः अत्यन्तं अतनुः, महती अतनुतमा तनुर्यस्य सा
तथा, बलीवर्द्दात् महिषो बलवान् क्षणं गौरेव जातः, बलीवर्द्द एवाभूत् शुक्लत्वात् ;
किंविशिष्टः दन्तज्योत्स्नावितानैर्गौरः दन्तानां ज्योत्स्ना उद्योतः तस्या
वितानानि विस्ताराः तैः किंविशिष्टैः न्यक्कृतार्धेन्दुभाभिः न्यक्कृताः नीचैः कृताः
अर्धेन्दोर्भाः प्रभाः कान्तयो यैस्तानि तैः ॥४८॥
सं० व्या०--४८. वृद्धोक्षो नेति ॥ सा अम्बिका गौरी वो युष्मान् अवतात्
रक्षतु, वृद्धश्चासावुक्षा च वृद्धोक्षः वृद्धो वृषो न क्षमस्ते न शक्तो भवतः, भव !
शङ्कर ! युष्मद्वाहो भवतो वाहनं एषोऽधुना भवतु, इत्येवं केलिकान्तं परि-
हासमन्योन्यं विहस्य विशेषेण हसित्वा, देवं प्रति शङ्करं अभि झटिति द्राक् पादेन
अद्रिणो महिषः क्षिप्तः अस्तः; महिषोऽप्यसौ न्यक्कृता निरस्ता अर्धेन्दोर-
र्धचन्द्रस्य भासो यैस्तथाविधैर्दन्तज्योत्स्नावितानैर्देशनविभासमूहैरतनुभिरकृत गौरः
शुक्लोऽतनुः स्थूलो गौरेव वृष एव क्षणमिव तत्क्षणं जातो भूतो भवति ॥४८॥
प्राक् कामं दहता कृतः परिभवो येन त्रिसन्ध्यानतेः[^३]
सेर्ष्या वोऽवतु चण्डिका चरणयोस्तं[^४] पातयन्ती पतिम् ।
कुर्व्वत्याऽभ्यधिकं कृते प्रतिकृतं[^५] मुक्तेन मौलौ मुहु-
र्बाप्पेणाहितकज्जलेन लिखितं स्वं नाम[^६] चन्द्रे यया ॥४९॥
-----------------------
[^१] ज० का०
[^२] ज० का०
का०
[^३] ज० का०
[^४] ज० का०
[^५] ज०
[^६] ज०