2023-03-31 06:11:38 by manu_css
This page has been fully proofread once and needs a second look.
पञ्चमः पादो भवदघं नुदत्विति ब्रह्मविष्णुमहेन्द्रयमरूपाश्चत्वारः पादा इति न
च विफलयथोक्ताभ्युपायाः इति च नञ् महिषविशेषणत्वेन वर्णयन्ति, तदेतद-
समञ्जसमिव प्रतिभाति, यतः पादाः शरीरावयवाः एषु च महिषतः पलाय(य्य)
दिक्षु गतेषु देव्याः शरीरं आपाद्यन्त; अन्यच्च, पादश्चतुर्थे भागे इति पाद-
लक्षणं विनश्यति, द्विपदीति सार्व्वजनीना प्रतीतिर्व्याहन्यते, तस्मात्पञ्चमः पादः
कश्चन कल्पनीयः स तावत् दृश्योऽदृश्यो दृश्यादृश्यो वा न तावत् दृश्यः स्वरूपानुप-
लब्धेः नाप्यदृश्यः तस्य निःप्रमाणकत्वेन कल्पनायोगात् तदुक्तं प्रमाणवन्त्यदृष्टानि
कल्प्यानि सुबहून्यपि बालाग्रशतलेशोऽपि न कल्प्यो निःप्रमाणक इति, अत(32a)
एव न दृश्यादृश्यः रूपः यस्मिन् अंशे दृश्यः स प्रतीतिबाधितो नोत्थातुं प्रभवति,
अदृश्यांशस्तु निरस्तत्वात् न प्रमाणकोटिमाटीकते, चतुर्थप्रकारो नास्त्येव तस्माद्
गरीयसी तत्रभवतां काचन कल्पना यथा परमेश्वरी जगदुत्कृष्टस्वरूपा अपि
विरूपयति, न च महिषविशेषणत्वेन सम्बद्धे मृत्योर्दण्डेन दान्तत्वापत्तेः, इतः परं
तु पाठान्तरकल्पनमपि व्यर्थमापद्येत ॥४६॥
सं० व्या०--४६. साम्नेति ॥ चण्डिकायाः पादः पञ्चम उपायो भवतो
युष्मान् सुखयतु सुखिनः करोतु, येन पादेन अरिर्महिषो हतो व्यापादितः कीदृशः
विफलयथोक्ताभ्युपायः विफला निष्फला यथोक्ता यथानिर्दिष्टा अभ्युपायाः
सामादयो यत्र स तथोक्तः, इदानीं तदेव विफलोपायत्वं शब्दच्छलेन दर्शयन्निद-
माह, साम्ना नाम्नाययोनेरित्यादि, आम्नाययोनेर्वेदसूब्रह्मणः सामार्थतरादिना-
ष्टभिः(? ) परितोषं न कृतवानरिः, नापि हरेर्विष्णोश्चक्रेण सुदर्शनेन भेदात्
धृतिं विहितवान्, सह इन्द्रेण वर्तते इति सहेन्द्र: तस्यैरावणस्यापि हस्तिराजस्य
दानवृष्ट्या मदवर्षेण केवलं परमुपरि कलुषितो मलिनत्वं गतो महिषो न चान्यत्र,
किमपि अनेनापि कर्तुं शक्तमिति कान् कर्षस्तु(?) तदस्यैरावणस्योपरि केवलं
कलुषितो दानवृष्ट्या न तु प्रसादाभिमुखो जातः, न च दान्तो दमितो यमस्य
मृत्योर्दण्डेन, एवं चत्वारोऽप्युपायाः छलितप्रयोगेण यथाक्रमं विफला विख्याताः ॥४६॥
भर्त्ता कर्त्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष
क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति ।
मत्वा सव्याजसव्येतरचरणचलाङ्गुष्ठकोणेन पिष्ट्वा[^१]
सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः ॥४७॥
-------------------
[^१] ज०-- नखाङ्गुष्ठकोणाभिमृष्टं । का०-- चलाङ्गुष्ठकोणाभिमृष्टं ।
च विफलयथोक्ताभ्युपायाः इति च नञ् महिषविशेषणत्वेन वर्णयन्ति, तदेतद-
समञ्जसमिव प्रतिभाति, यतः पादाः शरीरावयवाः एषु च महिषतः पलाय(य्य)
दिक्षु गतेषु देव्याः शरीरं आपाद्यन्त; अन्यच्च, पादश्चतुर्थे भागे इति पाद-
लक्षणं विनश्यति, द्विपदीति सार्व्वजनीना प्रतीतिर्व्याहन्यते, तस्मात्पञ्चमः पादः
कश्चन कल्पनीयः स तावत् दृश्योऽदृश्यो दृश्यादृश्यो वा न तावत् दृश्यः स्वरूपानुप-
लब्धेः नाप्यदृश्यः तस्य निःप्रमाणकत्वेन कल्पनायोगात् तदुक्तं प्रमाणवन्त्यदृष्टानि
कल्प्यानि सुबहून्यपि बालाग्रशतलेशोऽपि न कल्प्यो निःप्रमाणक इति, अत(32a)
एव न दृश्यादृश्यः रूपः यस्मिन् अंशे दृश्यः स प्रतीतिबाधितो नोत्थातुं प्रभवति,
अदृश्यांशस्तु निरस्तत्वात् न प्रमाणकोटिमाटीकते, चतुर्थप्रकारो नास्त्येव तस्माद्
गरीयसी तत्रभवतां काचन कल्पना यथा परमेश्वरी जगदुत्कृष्टस्वरूपा अपि
विरूपयति, न च महिषविशेषणत्वेन सम्बद्धे मृत्योर्दण्डेन दान्तत्वापत्तेः, इतः परं
तु पाठान्तरकल्पनमपि व्यर्थमापद्येत ॥४६॥
सं० व्या०--४६. साम्नेति ॥ चण्डिकायाः पादः पञ्चम उपायो भवतो
युष्मान् सुखयतु सुखिनः करोतु, येन पादेन अरिर्महिषो हतो व्यापादितः कीदृशः
विफलयथोक्ताभ्युपायः विफला निष्फला यथोक्ता यथानिर्दिष्टा अभ्युपायाः
सामादयो यत्र स तथोक्तः, इदानीं तदेव विफलोपायत्वं शब्दच्छलेन दर्शयन्निद-
माह, साम्ना नाम्नाययोनेरित्यादि, आम्नाययोनेर्वेदसूब्रह्मणः सामार्थतरादिना-
ष्टभिः(?

[^१] ज०