This page has been fully proofread once and needs a second look.

पछाङ्क ४६-४७ ध्याव्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ९३
 
पञ्चमः पादो भवदघं नुदत्विति ब्रह्मविष्णुमहेन्द्रयमरूपाश्चत्वारः पादा इति न

च विफलयथोक्ताभ्युपायाः इति च नञ् महिषविशेषणत्वेन वर्णयन्ति, तदेतद-

समञ्जसमिव प्रतिभाति, यतः पादाः शरीरावयवाः एषु च महिषतः पलाय (य्य)

दिक्षु गतेषु देव्याः शरीरं श्रापाद्यन्त; अन्यच्च, पादश्चतुर्थे भागे इति पाद-

लक्षणं विनश्यति, द्विपदीति सार्व्वजनीना प्रतीतिर्व्याहन्यते, तस्मात्पञ्चमः पादः

कश्चन कल्पनीयः स तावत् दृश्योऽदृश्यो दृश्यादृश्यो वा न तावत् दृश्यः स्वरूपानुप-

लब्धेः
नाप्यदृश्यः तस्य निःप्रमाणकत्वेन कल्पनायोगात् तदुक्तं प्रमाणवन्त्यदृष्टानि

कल्प्यानि सुबहून्यपि बालाग्रशतलेशोऽपि न कल्प्यो निःप्रमाणक इति, अत ( 32a )

एव न दृश्यादृश्यः रूपः यस्मिन् अंशे दृश्यः स प्रतीतिबाधितो नोत्यातथातुं प्रभवति,

अदृश्यांशस्तु निरस्तत्वात् न प्रमाणकोटिमाटीकते, चतुर्थप्रकारो नास्त्येव तस्माद्

गरीयसी तत्रभवतां काचन कल्पना यथा परमेश्वरी जगदुत्कृष्टस्वरूपा अपि

विरूपयति, न च महिषविशेषणत्वेन सम्द्धे मृत्योर्दण्डेन दान्तत्वापत्तेः, इतः परं

तु पाठान्तरकल्पनमपि व्यर्थमापद्येत ॥४६॥
 
लव्धेः
 

 
सं० व्या०--४६. साम्नेति ॥ चण्डिकायाः पादः पञ्चम उपायो भवतो

युष्मान् सुखयतु सुखिनः करोतु, येन पादेन रिर्महिषो हतो व्यापादितः कीदृशः

विफलयथोक्ताभ्युपाय:यः विफला निष्फला यथोक्ता यथानिर्दिष्टा अभ्युपाया:
याः
सामादयो यत्र स तथोक्तः, इदानीं तदेव विफलोपायत्वं शब्दच्छलेन दर्शयन्निद-

माह, साम्ना नाम्नाययोनेरित्यादि, आम्नाययोनेर्वेदसूब्रह्मणः सामार्थतरादिना-

ष्टभि : भिः( ? ) परितोषं न कृतवानरिः, नापि हरेर्विष्णोश्चक्रेण सुदर्शनेन भेदात्
घृति

धृतिं
विहितवान्, सह इन्द्रेण वर्तते इति सहेन्द्र: तस्यैरावणस्यापि हस्तिराजस्य

दानवृष्ट्या मदवर्षेण केवलं परमुपरि कलुषितो मलिनत्वं गतो महिषो न चान्यत्र,

किमपि अनेनापि कर्तुं शक्तमिति कान् कर्षस्तु (?) तदस्यैरावणस्योपरि केवलं

कलुषितो दानवृष्ट्या न तु प्रसादाभिमुखो जातः, न च दान्तो दमितो यमस्य

मृत्योर्दण्डेन, एवं चत्वारोऽप्युपायाः छलितप्रयोगेण यथाक्रमं विफला विख्याताः
 
॥४६॥
 

 
भर्त्ता कर्त्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष
 

क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति ।

मत्वा सव्याजसव्येतरचरण चलाङ्गुष्ठकोणेन पिष्ट्वा
 
[^१]
सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः ॥४७॥
 

 
-------------------
[^
.] ज०--नखाङ्गुष्ठ कोरण । णाभिमृष्टं । का०--चलाङ्गुष्ठ कोणाभिमृष्टं ।
 
T
 
1
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy