This page has been fully proofread once and needs a second look.

च्छृङ्गाग्रकोणक्वणितमणितुलाकोटिः स एव हुङ्कारो गर्भो मध्यवर्ती यस्य स
तथोक्तः; यमोऽपि प्रत्यासन्नात्ममृत्युप्रतिभयहुङ्कारगर्भः कोपेनारुणत्वं दधदसुरैर्मृतै-
र्दृश्यते अत एव यमसाम्ये पादस्योक्तिरिति ॥४४॥
 
आहन्तुं[^१] नीयमाना भरविधुरभुजस्रं समानोभयांसं
कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि ।
प्राक्प्राणानस्य नास्यद् गगनमुदपतद्गोचरं या शिलायाः
सम्प्राप्यागामिविन्ध्याचलशिखरशिखावासयोग्योद्यतायाः[^२] ॥४५॥
 
कुं० वृ०--सा देवी वो युष्माकं एनांसि पापानि अपहरतु नाशयतु, या किं-
विशिष्टा इत्याह, या गगनमाकाशं उदपतत् उत्पतिता, कथं क्षणेन मुहूर्तमात्रेणैव,
किं कृत्वा शिलाया गोचरं निकटप्रदेशं संप्राप्य, किंभूतायाः शिलायाः आगामि-
विन्ध्याचलशिखरशिखावासयोग्योद्यतायाः विन्ध्याचलस्य शिखरं शृङ्गं तस्य
शिखा अग्रभागः तत्र वासः आगामी योऽसौ विन्ध्याचलशिखरशिखावासः तस्य
योग्या विस्तीर्णत्वेन रम्यतया च उत्कृष्टा सा चासौ उद्यता उच्छ्रिता च तस्याः,
अयमभिप्रायः, भाविनं विन्ध्यगिरिशिखरशिखावासं विचिन्त्य सम्प्रत्येव तं
कर्तुमागतेयं; श्रूयते च एवं, तदनन्तरं कतिचिद्दिनेषु गतेषु तस्यां शिलायां देवी
कृतवसतिः सती विन्ध्यवासिनीति प्रसिद्धा; अथवा पाठान्तरेणास्यैव व्याख्या,
आगामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव, कथंभूता सा देवी विन्ध्यश्चा-
सावचलश्च तस्य शिखरं तस्मिन् शिला तस्यां आवासो वसनं तस्य योगः सम्बन्धः
यस्तत्र उद्युक्ता इव, अनेन एतदुक्तं भवति अग्रे मया विन्ध्यशिखरशिलायां
वस्तव्यं तदिहैव निषीदामीत्यभिप्रायेणैव गगनमु(31a)त्पतिता इव; किंभूता सती
सा उत्पतिता, कंसेन आहन्तुं व्यापादयितुं नीयमाना आहन्तुमिति शिलायां
आस्फालयितुं कथं यथा भवति, भरविधुरभुजस्रं समानोभयांसं यथा भवति;
यद्यप्यत्रोभयशब्दः श्रूयते तथाप्यत्रोभयशब्देनैव विग्रहः क्रियते अविरविकन्यायेन
यतो द्विवचनान्तस्योभयशब्दस्य प्रयोगाभावात्, देव्या भारेण विधुरौ कम्पमानौ
भुजौ बाहू स्रंसमानौ अधोगच्छन्तौ उभौ अंसौ च स्कन्धौ यत्र तथा कृत्वा
स्रंसमानौ उभौ अंसौ यस्य इति वाक्ये उभशब्दादुभयशब्दः केन सूत्रेण क्रियते,
न तावदुभावुदात्त इति प्रत्ययोत्पत्तिः, उभशब्दस्योपसर्ज्जनीभूतस्य सापेक्षत्वा-
 
-------------------
[^१] ज०- आघातं ।
[^२] ज० का०- सम्प्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव ।