This page has not been fully proofread.

T
 
महाकविवाण-विरचितं चण्डीशतकम् [ पद्याङ्क ४५ व्याख्या
 
च्छृङ्गाग्रकोणक्वणितमणितुलाकोटि: स एव हुङ्कारो गर्भो मध्यवर्ती यस्य स
तथोक्तः; यमोऽपि प्रत्यासन्नात्ममृत्युप्रतिभयहुङ्कारगर्भः कोपेनारुणत्वं दधदसुरमृ तै-
हृश्यते अत एव यमसाम्ये पादस्योक्तिरिति ॥४४॥
 
१० ]
 
wwmum
 
हन्तुं नीयमाना भरविधुरभुजस्र समानोभयांसं
 
कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि ।
प्राक्प्राणानस्य नास्यद् गगनमुदपतद्गोचरं या शिलायाः
सम्प्राप्यागामि विन्ध्याचल शिखर शिखावासयोग्योद्यतायाः ॥४५॥
 
कुं० वृ० – सा देवी वो युष्माकं एनांसि पापानि अपहरतु नाशयतु, या कि-
विशिष्टा इत्याह, या गगनमाकाशं उदपतत् उत्पतिता, कथं क्षणेन मुहूर्तमात्रेणैव,
कि कृत्वा शिलाया गोचरं निकटप्रदेशं संप्राप्य, किंभूताया: शिलाया: आगामि
विन्ध्याचलशिखर शिखावासयोग्योद्यतायाः विन्ध्याचलस्य शिखरं शृङ्गं तस्य
शिखा अग्रभागः तत्र वासः श्रागामी योऽसौ विन्ध्याचल शिखरशिखावासः तस्य
योग्या विस्तीर्णत्वेन रम्यतया च उत्कृष्टा सा चासौ उद्यता उच्छ्रिता च तस्याः,
श्रयमभिप्रायः, भाविनं विन्ध्यगिरिशिखरशिखावासं विचिन्त्य सम्प्रत्येव तं
कर्तु मागतेयं; श्रूयते च एवं, तदनन्तरं कतिचिद्दिनेषु गतेषु तस्यां शिलायां देवी
कृतवसतिः सती विन्ध्यवासिनीति प्रसिद्धा; अथवा पाठान्तरेणास्यैव व्याख्या,
आगामिविन्ध्याचल शिखरशिलावासयोगोद्यतेव, कथंभूता सा देवी विन्ध्यश्चा-
सावचलश्च तस्य शिखरं तस्मिन् शिला तस्यां श्रावासो वसनं तस्य योगः सम्बन्ध:
यस्तत्र उद्युक्ता इव, अनेन एतदुक्त भवति अग्रे मया विन्ध्यशिखरशिलायां
वस्तव्यं तदिहैव निषीदामी त्यभिप्रायेणैव गगनमु (31a) पतिता इव; किंभूता सती
सा उत्पतिता, कंसेन ग्रहन्तु व्यापादयितुं नीयमाना ग्रहन्तुमिति शिलायां
 
फालयितुं कथं यथा भवति, भरविधुरभुजस्र समानोभयांसं यथा भवति;
यद्यप्यत्रोभयशब्दः श्रूयते तथाप्यत्रोभयशब्देनैव विग्रहः क्रियते अविरविकन्यायेन
यतो द्विवचनान्तस्योभयशब्दस्य प्रयोगाभावात् देव्या भारेण विधुरी कम्पमानी
भुजी बाहू स्रं समानौ प्रधोगच्छन्ती उभी अंसी च स्कन्धी यत्र तथा कृत्वा
स्रंसमानी उभौ सौ यस्य इति वाक्ये उभशब्दादुभयशब्द: केन सूत्रेण क्रियते,
न तावदुभावुदात्त इति प्रत्ययोत्पत्तिः, उभशब्दस्योपसर्जनीभूतस्य सापेक्षत्वा-
१. ज० - श्राघातं ।
 
२. ज० का०-सम्प्राप्यागामिविन्ध्याचल शिखरशिलावासयोगोद्यतेव ।
 

 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy