This page has been fully proofread once and needs a second look.

कोपेनैवारुणत्वं दधदधिकतरा[^१]ऽऽलक्ष्यलाक्षारसश्रीः
श्लिष्यत्तुङ्गाग्रकोण[^२] क्वणितमणितुलाकोटिहुङ्कारगर्भः ।
प्रत्यासन्नात्ममृत्युः प्रतिभयमसुरैरीक्षितो[^३] हन्त्वरीन्वः
पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टान्निविष्टः ॥४४॥
 
कुं० वृ०--देव्याः पादो वो युष्माकं अरीन् हन्तु व्यापादयतु; कथंभूतः पादः
महिषस्य उपरिष्टान्निविष्ट: महिषमारूढः; पुनः कथंभूतः पादः, प्रत्यासन्नात्म
मृत्युः प्रत्यासन्नोऽसुराणां आत्मनो मुत्युर्यस्मात् स तथा, यमपक्षे प्रत्यासन्न
आत्मनः स्वस्य मृत्युर्मृत्युनामा यमस्य अधिकृतः पुरुषः सोऽपि महिषारूढो भवति,
क इव अपरकृतान्त इव द्वितीयो यम इव; किंविशिष्टः असुरैर्दानवैरीक्षितः,
कथं यथा भवति प्रतिभयं यथा भवति तथा; अन्यच्च, किंविशिष्टः पादः,
श्लिष्यत्तुङ्गाग्रकोणक्वणितमणितुलाकोटिरेव हुङ्कारो गर्भे मध्यवर्ती यस्य स
तथा; यमोऽपि प्रत्यासन्नात्ममृत्युः प्रतिभयं यथा भवति तथा मर्त्यो दृश्यते, अत एव
यमसाम्यं पादस्योच्यते, यमोऽपि महिषारूढो भवति, हुङ्कारेण प्राणिनो भीषयति;
किंविशिष्टः अधिकतरं आलक्ष्या दृश्या लाक्षारसस्य यावकस्य शोभाः श्रियो
यस्मिन् स तथा; उत्प्रेक्ष्यते, कोपेन अरुणत्वं दधदिव ॥४४॥
 
सं० व्या०--४४. कोपेनैवारुणत्वमिति ॥ देव्याः भगवत्याः पादोऽङ्घ्रिः
वो युष्माकमरीन् शत्रून् हन्तु व्यापादयतु, किंविशिष्टो निविष्ट: स्थितः, क्व
उपरिष्टात् उपरि, कस्य महिषस्य, अपर इव द्वितीय इव कृतान्तो यमः; यमोsपि
महिषोपरि वसतीत्यभिप्राय: । किंभूतः पादः, असुरैः महिषपक्षैरीक्षितोऽवलोकितः
कथं प्रत्यासन्नात्ममृत्युप्रतिभयं मृत्योर्मरणात् प्रतिभयं मृत्युप्रतिभयं आत्मनो मृत्यु-
प्रतिभयं प्रत्यासन्नं सन्निहितात्ममृत्युप्रतिभयं यस्मिन्नीक्षणे तद्यथा भवत्येवं; किं
कुर्वन् पादः कोपेनैवारुणत्वं रक्तत्वं दधत् धारयन्, वस्त्वर्थस्तु स्वभावरक्तोक्तिः,
अत एवाधिकतरालक्ष्यलाक्षारसश्रीरित्युक्तः, अधिकतरा अभ्यधिका लक्ष्या आलोक-
नीया लाक्षारसस्य यावकस्य श्रीः शोभा यस्य सः तथोक्तः; पुनरपि किंविशिष्टः
पादः श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुङ्कारगर्भः तुलाकोटिर्नूपुरो
मणीनां तुलाकोटिमणिः, कोणो वादकः, शृङ्गस्याग्रं शृङ्गाग्रं तदेव कोणः श्लिष्यँ-
श्चासौ शृङ्गस्याग्रकोणश्च तेन क्वणितः शब्दितश्चासौ मणितुलाकोटिश्च श्लिष्य-
 
----------------------
[^१] दधदधिकमलमित्यपि पाठान्तरं काव्यामालाप्रतौ पादटिप्पण्यामङ्कितम् ।
[^२] ज० का०-- श्लिश्यच्छङ्गाग्रकोण० ।
[^३] ज० का०-- प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो ।