This page has been fully proofread once and needs a second look.

पद्याङ्क ४४
 
व्याख्या ] मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति
समेतन्
 

कोपेनैवारुणत्वं दधदधिकतरा'[^१]ऽऽलक्ष्यलाक्षारसश्रीः

श्लिष्यत्तुङ्गाग्रकोण[^२] क्वणितमणितुलाको टिहुङ्कारगर्भः ।

प्रत्यासन्नात्ममृत्युः प्रतिभयमसुरैरीक्षितो'[^३] हन्त्वरीन्वः
 

पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टान्निविष्टः ॥४४॥

 
कुं० वृ०--देव्याः पादो वो युष्माकं अरीन् हन्तु व्यापादयतु; कथंभूतः पादः

महिषस्य उपरिष्टान्निविष्ट: महिषमारूढः; पुनः कथंभूतः पादः, प्रत्यासन्नात्म

मृत्युः प्रत्यासन्नोऽसुराणां आत्मनो मुत्युर्यस्मात् स तथा, यमपक्षे प्रत्यासन्न

आत्मनः स्वस्य मृत्युर्मृत्युनामा यमस्य अधिकृतः पुरुषः सोऽपि महिषारूढो भवति,

क इव अपरकृतान्त इव द्वितीयो यम इव; किंविशिष्ट:टः असुरैर्दानवैरीक्षितः,

कथं यथा भवति प्रतिभयं यथा भवति तथा; अन्यच्च, किंविशिष्टः पादः,

श्लिष्यत्तुङ्गाग्रकोणक्वणितमणितुलाकोटिरेव हुङ्कारो गर्भे मध्यवर्ती यस्य स

तथा; यमोऽपि प्रत्यासन्नात्ममृत्युः
प्रतिभयं यथा भवति तथा मर्त्यो दृश्यते, ग्रत एव

यमसाम्यं पादस्योच्यते, यमोऽपि महिषारूढो भवति, हुङ्कारेण प्राणिनो भोभीषयति;
कि

किं
विशिष्ट:टः अधिकतरं आलक्ष्या दृश्या लाक्षारसस्य यावकस्य शोभाः श्रियो

यस्मिन् स तथा; उत्प्रेक्ष्यते, कोपेन अरुणत्वं दधदिव ॥४४॥
 

 
सं० व्या० - --४४. कोपेनैवारुणत्वमिति ॥ देव्याः भगवत्याः पादोऽङ्घ्रिः

वो युष्माकमरीन् शत्रून् हन्तु व्यापादयतु, किंविशिष्टो निविष्ट: स्थितः, क्व

उपरिष्टात् उपरि, कस्य महिषस्य, अपर इव द्वितीय इव कृतान्तो यमः; यमोsपि

महिषोपरि वसतीत्यभिप्राय: । किंभूतः पादः, असुरैः महिषपक्षैरीक्षितोऽवलोकितः

कथं प्रत्यासन्नात्ममृत्यु प्रतिभयं मृत्योर्मरणात् प्रतिभयं मृत्युप्रतिभयं आत्मनो मृत्यु-

प्रतिभयं प्रत्यासन्नं सन्निहितात्ममृत्युप्रतिभयं यस्मिन्नीक्षणे तद्यथा भवत्येवं; किं

कुर्वन् पादः कोपेनैवारुणत्वं रक्तत्वं दधत् धारयन्, वस्त्वर्थस्तु स्वभावरक्तोक्तिः,

अत एवाधिकतरालक्ष्यलाक्षारसश्रीरित्युक्तः, अधिकतरा अभ्यधिका लक्ष्या झालोक-

नीया लाक्षारसस्य यावकस्य श्रीः शोभा यस्य सः तथोक्तः; पुनरपि किंविशिष्ट:
टः
पादः
श्लिष्यच्छृ ङ्गाग्रकोणक्वणितमणितुला कोटिहुङ्कारगर्भः तुलाकोटिर्नूपुरो

मणीनां तुलाकोटिमणिः, कोणो वादकः, शृङ्गस्याग्रं शृङ्गाग्रं तदेव कोणः श्लिष्य-
यँ-
श्चासौ शृङ्गस्याग्रकोणश्च तेन क्वणितः शब्दितश्चासौ मणितुलाकोटिश्च श्लिष्य-
पा

 
----------------------
[^१]
:
 
१. दघ
दधिकमलमित्यपि पाठान्तरं काव्यामालाप्रतीतौ पादटिप्पण्यामङ्कितम् ।

[^
.] ज० का० - -श्लिश्यच्छङ्गाग्रको
 

[^
.] ज० का० - -प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो ।
 
T
 
[ ८६
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy