This page has been fully proofread once and needs a second look.

८८ ]
 
[ पद्याङ्क ४३ व्याख्या
 
"
 
कुं. वृ.--पादपद्मं युष्मान् पातु अर्थाद् देव्याः किकिंविशिष्टं केसरिस्कन्धभित्तेरुपरि

क्षणं धृतं, किमर्थं विश्रान्त्यै, केसरिणः सिंहस्य स्कन्धः स एव भित्तिः तस्याः, किं कुर्वन्

तत्केसरालीं बिभ्रत् तस्यां केसरिस्कन्धभित्तौ केसराली केसर<error>पङ्तिः</error> <fix>पङ्क्तिः</fix> तत्केसराली

तां, पद्मस्य हि गर्भे केसराणि भवन्ति, किकिं कृत्वा दत्त्वा, कं त्रिदशरिपुमहादैत्य-

देहोपहारं त्रिदशानां देवानां रिपुस्त्रिदशरिपुः, महांश्चासोसौ दैत्यश्च महादैत्यः

त्रिदशरिपुश्चासौ महादैत्यश्च त्रिदशरिपुमहादैत्यः तस्य देहः स एव उपहारो

बलिः तं त्रिदशरिपुमहादैत्यदेहोपहारमित्यतः पौनरुक्तस्य स्पष्टत्वात्; पपाठोयमिति

निश्चीयते पर्यायाणां विकर्त्तनस्तमसामितिवत् अवयवार्थविशेषादर्शनात्, अतोऽत्र

'महाभागदेह' इति पाठेन भाव्यं; किंभूतमुपहारं, स्थूलान्त्रनालावलिविघसहसद्-

घस्मरप्रेतकान्तं न्त्राण्येव नालानि अन्त्रनालानि, स्थूलानि यानि स्थूलान्त्रनालानि

तेषां प्रावलिः सा एव विघसो भुक्तशेष:षः ग्रास:सः तेन हसन् घस्मरोऽदनशीलः

प्रेतानां कान्तो यस्मिन् स तं, कया दत्वा कात्यायन्या, केन प्रात्मनैव श्रयमाशयः,
श्र

यं महान् महिषरूप उपहार:रः देवीपादभुक्तशेषेणैव मे तृप्तिर्भविष्यतीति यमस्य

हासे करणं, किल देव्या महोत्सवे सर्वेवैरुपहारो दीयते; यत्र महिवधमहोत्सवे

देव्या आत्मनैव चर(30b) णयोरुपहारो दत्त इत्यर्थः, कथभूतं पादपद्मं मणिमधु-

परणन्नूपुरं मणय एव मधुपाः तै रणन् नूपुरो यत्र तत्तथा ॥४३॥
 
T.
 
महाकविधाण-विरचितं चण्डीशतकम्
 
www
 

 
सं० व्या०--४३. दत्त्वेति ॥ पाद एव पद्मं चरणपङ्कजं युष्मान् भवतः

पातु रक्षतु, किंविशिष्टं उपरिकृतं कात्यायन्या देव्या क्षणं स्तोककालं कस्या

उपरिकृतं, केसरिस्कन्धभित्तिः तस्या उपरिकृतं, किमर्थं विश्रान्त्यै विश्रमणाय,

पद्मस्य हि नालकेसरभ्रमणयोगो भवति स तु यथाsवसरं दर्शयति, किं कुर्वत् पाद-

पद्म विमं बिभ्रत् धारयत् तत्केसराली तस्याः स्कन्धभित्तेः केसराली तां, किंविशिष्टं

पादपद्मं अलिमुखररणन्नूपुरं अलिवन्मुखर एव वाचालो रणन्नूपुरो यत्र तत्

तथोक्तं, किं कृत्वा स्कन्धोपरिकृतं दत्त्वा त्रिदशरिपुमहादैत्यदेहोपहारं त्रिदशा

देवास्तेषां रिपुः स चासौ महादैत्यश्च तस्य देहस्त्रिदशरिपुमहादैत्यदेहः स

चासावुपहारश्च त्रिदशरिपुमहादैत्यदेहोपहारस्तं दत्वा, उपहारो बलिः, भगवती [त्यै]

हि परेणोपहारो दीयते, कात्यायन्यात्मनैव स्वयमेव महिषदेहोपहारं [कृ] तमिति
कि

किं
विशिष्टमुपहारं स्थूलान्त्रमालावलिविघसहसद्स्मरप्रेतकान्तं स्थूलानि च

तान्यन्त्राणि तेषां मालाः स्रजस्तासामावलिः श्रेणिः पंक्तिस्तस्या विघसो भुक्त-

शेषं तेन हसन्तो घस्मरा भक्षका ये प्रेताः परेतास्तेषां कान्तो वल्लभस्तं स्थूलान्त्र-

मालावलिविघसहसद्स्मरप्रेतकान्तम् ॥४३॥
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy