This page has not been fully proofread.

८८ ]
 
[ पद्याङ्क ४३ व्याख्या
 
"
 
कुं. वृ. – पादपद्म युष्मान् पातु अर्थाद् देव्याः किविशिष्टं केसरिस्कन्धभित्तेरुपरि
क्षणं धृतं, किमर्थं विश्रान्त्य, केसरिणः सिंहस्य स्कन्धः स एव भित्तिः तस्याः, किं कुर्वन्
तत्केसरालीं बिभ्रत् तस्यां केसरिस्कन्धभित्तौ केसराली केसरपतिः तत्केसराली
तां, पद्मस्य हि गर्भे केसराणि भवन्ति, कि कृत्वा दत्त्वा, कं त्रिदशरिपुमहादैत्य-
देहोपहारं त्रिदशानां देवानां रिपुस्त्रिदशरिपुः, महांश्चासो दैत्यश्च महादैत्यः
त्रिदशरिपुश्चासौ महादैत्यश्च त्रिदशरिपुमहादैत्यः तस्य देहः स एव उपहारो
बलिः तं त्रिदशरिपुमहादैत्यदेहोपहारमित्यतः पौनरुवतस्य स्पष्टत्वात्; पपाठोयमिति
निश्चीयते पर्यायाणां विकर्त्तनस्तमसामितिवत् अवयवार्थविशेषादर्शनात्, अतोऽत्र
'महाभागदेह' इति पाठेन भाव्यं; किंभूतमुपहारं, स्थूलान्त्रनालावलिविघसहसद्-
घस्मरप्रेतकान्तं मन्त्राण्येव नालानि अन्त्रनालानि, स्थूलानि यानि स्थूलान्त्रनालानि
तेषां प्रावलिः सा एव विघसो भुक्तशेष: ग्रास: तेन हसन् घस्मरोऽदनशीलः
प्रेतानां कान्तो यस्मिन् स तं, कया दत्वा कात्यायन्या, केन प्रात्मनैव श्रयमाशयः,
श्रयं महान् महिषरूप उपहार: देवीपादभुक्तशेषेणैव मे तृप्तिर्भविष्यतीति यमस्य
हासे करणं, किल देव्या महोत्सवे सर्वेरुपहारो दीयते; यत्र महिपवधमहोत्सवे
देव्या आत्मनैव चर(30b) णयोरुपहारो दत्त इत्यर्थः, कथभूतं पादपद्म मणिमधु-
परणन्नूपुरं मणय एव मधुपाः तै रणन् नूपुरो यत्र तत्तथा ॥४३॥
 
T.
 
महाकविधाण-विरचितं चण्डीशतकम्
 
www
 
सं० व्या० – ४३. दत्त्वेति ॥ पाद एव पद्म चरणपङ्कजं युष्मान् भवतः
पातु रक्षतु, किंविशिष्टं उपरिकृतं कात्यायन्या देव्या क्षणं स्तोककालं कस्या
उपरिकृतं, केसरिस्कन्धभित्तिः तस्या उपरिकृतं, किमर्थं विश्रान्त्यै विश्रमणाय,
पद्मस्य हि नालकेसरभ्रमणयोगो भवति स तु यथाsवसरं दर्शयति, किं कुर्वत् पाद-
पद्म विभ्रत् धारयत् तत्केसराली तस्याः स्कन्धभित्तेः केसराली तां, किंविशिष्टं
पादपद्म लिमुखररणन्नूपुरं अलिवन्मुखर एव वाचालो रणन्नूपुरो यत्र तत्
तथोक्त, किं कृत्वा स्कन्धोपरिकृतं दत्त्वा त्रिदशरिपुमहादैत्यदेहोपहारं त्रिदशा
देवास्तेषां रिपुः स चासौ महादैत्यश्च तस्य देहस्त्रिदशरिपुमहादैत्यदेहः स
चासावुपहारश्च त्रिदशरिपुमहादैत्यदेहोपहारस्तं दत्वा, उपहारो बलिः, भगवती [त्यै]
हि परेणोपहारो दीयते, कात्यायन्यात्मनैव स्वयमेव महिषदेहोपहारं [कृ] तमिति
किविशिष्टमुपहारं स्थूलान्त्रमालावलिविघसहसद्धस्मरप्रेतकान्तं स्थूलानि च
तान्यन्त्राणि तेषां मालाः स्रजस्तासामावलिः श्रेणिः पंक्तिस्तस्या विघसो भुक्त-
शेषं तेन हसन्तो घस्मरा भक्षका ये प्रेताः परेतास्तेषां कान्तो वल्लभस्तं स्थूलान्त्र-
मालावलिविघसहसद्धस्मरप्रेतकान्तम् ॥४३॥
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy