2023-03-13 13:35:09 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क ३८-३९ व्याख्या ]
मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
[ ८३
सा हतरिपुः, कथं जयोक्त तदुच्यते, दैत्यो दोर्दर्पशालीत्यादि, दोषो (ष्णो) दर्पस्तेन
शाली शालि शीलं यस्य स (दो) दर्प्पशाली, कल्पनीयाभ्युपावः कल्पनीयः
अभ्युपाय:
सामादिको यत्र स कल्पनीयाभ्युपायः दैत्यो दितिजो दर्प्प-
शाली कल्पनीयाभ्युपायो न यस्मात् महिषवपुः महिषशरीरे तिर्यक्त्वेनाऽबाहुकोऽय-
मिति भावः । वायो पवन ! वारीश वरुण ! विष्णो हरे ! वृषगमन शम्भो !
बृहत् महान् कि विषादो विषण्णता वृथैवेत्यर्थः, बध्नीत कवचं सन्नाहं प्रचकिता
अशङ्किताः किमेकाकिनो भवन्तो ब्रध्नमिश्राः, ब्रध्नेन भानुना मिश्रा: युक्ताः,
चित्रभानो व (वह्ने !) दह भस्मीकुरु अरीन् शत्रून् महिषपक्षानित्यर्थः ॥ ३८॥
आव्योमव्यापिसीम्नां' वनमतिगहनं गाहमानो भुजाना-
मचिर्मोक्षेण मूर्च्छन् दवदहनरुचां लोचनानां त्रयस्य ।
यस्या निर्व्याजमज्जच्चरणभरनतो गां विभज्य प्रविष्टः
२
पातालं पङ्कपातोन्मुख इव महिषः सा श्रिये स्तादुमा वः ॥३६॥
कुं० वृ० – सा उमा पार्व्वती वो युष्माकं श्रिये स्तात् भवतु, कथंभूतेत्याह,
यस्याः निर्व्याजमज्जच्चरणभरनतः सन् महिषः पातालं प्रविष्टः, निर्व्याजं
प्रकौटिल्येन लीलया मज्जन् महिषस्कन्धे ब्रुडन् योऽसौ चरणस्तस्य भरो गुरुत्वं
तेन नतः, किं कृत्वा गां पृथ्वीं विभज्य, किं कुर्वन् गाहमानो मर्दयन्, किं वनं
समूहंं, केषां भुजानां देवीसम्बन्धिनां बाहूनां, किंभूतानां श्राव्योमव्यापिसीम्नां
व्योम्नः श्राश्राव्योम प्राव्योमव्यापिनी सीमा मर्यादा येषां ते श्राव्योमव्यापि-
सीमानस्तेषां, किंभूतं वनं अतिगहनं, अत एव दैत्य उत्प्रेक्ष्यते पकपातोन्मुख इव
कर्दमाभिमुख इव महिषः किल अतिगहनं अपि कण्टकरूपं वनं अवगाह्य श्रान्तः
सन् पङ्के प्रविशति; अन्यच्च, किं कुर्व्वन् अत्तिमोक्षेण मूर्च्छन् दीनमोचनेन (?) मूर्च्छा
गच्छन् कस्य देवीसम्बन्धिनां लोचनानां त्रयस्य, किंभूतानां दवदहनरुचां
दवाग्निदीप्तानां क्रोधवशाद् अतिप्रदीप्तानामित्यर्थः, देव्या नेत्रत्रयं विद्यते महेश-
शक्तित्वात् ॥३६॥
१. ज० श्रव्योमव्यापिसीम्ना ।
२ वृत्तावतिमोक्षेणेति पाठो व्याख्यातो विचारणीयः ।
३. ज० का० निर्मज्जमज्जच्चररणभरनतो ।
४० ज० का० विभिद्य ।
५. ज० पङ्कपातोन्मुखमिव ।
६० ज० सा शिवास्तु श्रिये वः; का० स्तादुमा सा श्रिये वः ।
T
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy