We're performing server updates until 1 November. Learn more.

This page has been fully proofread once and needs a second look.

कुं० वृ०--सा उमा पार्वती वो युष्माकं श्रिये स्तात् भवतु, सा का यत्पाद-
पिष्टे यस्याः पादेन पिष्टे इति अत्राऽसमर्थः समासः, यत्पादपिष्टे चूर्णिते महिष-
वपुषि द्विषि सति द्युवसतयो देवाः स्वानि स्वान्यायुधानि भूयोऽपि प्रापन् लेभिरे,
कानीव आयूंषीव आयुधजीविनां किल आयुधान्यैवायूंषि, आयुधजीवित्वाच्छः,
किं प्रापत् इत्याह, वज्रं मज्ञो मरुत्वान्, देवेन्द्रः महिषस्य मज्जासंज्ञकधातुतो
वज्रं प्रापत् लेभे, हरिर्नारायणो महिषस्योरसः अरि चक्रं प्रापत्, अरा विद्यन्ते
यस्य आयुधानां विशेषं, अपि च, ईशो महादेवः शिरस्तः शिरःसकाशात् शूलं
प्रापत् ; अपि च, कृतान्तो यमः तुण्डात् मुखात् दण्डं प्रापत्; अन्यच्च, अर्थाधिनाथो
धनदः अस्थितः अस्थनः सकाशात् गदां प्रापत् ; किमुक्तं भवति, देवैः स्वानि
स्वान्यायुधानि महिषं प्रति मुक्तानि तानि तेषु तेष्ववयवेषु लग्नानि न पुनस्तै-
र्मृतः परं देव्याः पादपातेन मृते महिषे सति तत्तत्प्रदेशेभ्यस्तान्येव देवा भूयोऽपि
गृहीतवन्त इति वाक्यार्थः ॥३६॥
 
सं०व्या०--३६. वज्रमिति ॥ उमा गौरी वो युष्माकं श्रिये सम्पदे स्तात्
भवतु, यत्पादपिष्टे यस्याः पादेन पिष्टे चूर्णिते द्विषि शत्रौ महिषवपुषि शरीरे
अङ्गलग्नानि पूर्वं मुक्तानि आयुधानि प्रहरणानि भूयोऽपि पुनरपि आयूंषीव
जीवितानीव द्युवसतयो देवाः प्रापन् प्राप्तवन्तः, द्युवसतयः आयुधानि पुनः प्रापन्
इत्याह, वज्रं मज्ञो मरुत्वानित्यादि, मरुत्वानिन्द्रो वज्रं मज्ञः मज्जधातोः सकाशात्
प्राप्तवान्, अराः अस्य सन्तीति अरि चक्रं हरिर्विष्णुरुरसो लब्धवान्
प्राप्नोति स्म, शूलं प्रहरणविशेषं ईशो महादेवः शिरस्तो मूर्नःविष् आसादितवान्,
दण्डाग्रायुधं तु मुखाग्रंतु(ग्रात्तु) कृतान्तो यमः प्राप्नोति स्म, गदं प्रहरणमस्थितो-
ऽस्थ्नः अर्थाधिनाथो धनदः त्वरितगतिर्यस्मिन् प्रापणे तद्यथा भवत्येवं प्राप्तवा-
निति ॥३६॥
 
दृष्टावासक्तदृष्टिः प्रथममिव तथा[^१] सम्मुखीनाभिमुख्ये[^२]
स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः ।
उद्युक्ता नर्म्मकर्म्मण्यवतु पशुपतेः[^३] पूर्ववत् पार्व्वती वः
कुर्वाणा सर्वमीषद्विनिहितचरणाऽलक्तकेव क्षतारिः ॥३७॥
 
--------------------
[^१] 'कृतमुखविकृतिः' इति काव्यमालाप्रतावतिरिक्त-पाठान्तरम् ।
[^२] ज० सम्मुखीवाभिमुख्ये ।
[^३] का० पशुपतौ ।