This page has been fully proofread once and needs a second look.

कुं० वृ०--अद्रेः कन्या पर्वतपुत्री वः [त्रायतां] पालयतु, किं कुर्वती मृद्नती
चूर्णयन्ती, कं दैत्यं, किंभूतं इत्थं व्यावल्गन्तं, क्व प्रमथपरिभवे 'प्रमथाः स्युः
पारिषदाः', प्रमथानां परिभवः प्रमथपरिभवः तस्मिन् प्रमथपरिभवे, कथं केन
प्रकारेण, हे नन्दिन् ! हे महेश्वरगण ! सम्प्रहारे सङ्ग्रामे यस्त्वदीयः प्रहारः
आघातः स मम आनन्ददः, आनन्दं ददातीति आनन्ददः, अथवा हे नन्दिन् ! ते
प्रहारो मे आनन्ददो न अपि तु सम्यगानन्ददः, अथ आनन्दं द्यति खण्डयति आनन्दद:
अत्र उपहासमात्रं द्योत्यते; किंभूतः प्रहारः मुरजमृदु: मुरजे वाद्यविशेषे य
आ(28a)घातस्तद्वन्मृदुः यतस्त्वं मुरजवादनप्रवीणः तदीयो यः प्रहारः अमुरजा-
घातसदृश एव ; अपि च, हे गजमुख ! त्वं किं व्रजसि किं यासि त्वं वशीभूतः
एव मया गृहीत एव, क्व सति दन्ते विषाणे रोम्णि अर्थान्मामके परिणमनात्
तिर्यक्दत्तप्रहारास्तु(त्तु) भग्ने सति तव एक एव दन्तोऽभूत्, तं अपि त्यक्त्वा
व्रजन् न लज्जसे ; अपि च, हे महाकाल ! हरगण ! त्वं एतन् मा ज्ञासीः यत्
अहं एक एव महाकालो न द्वितीयः यावता इहास्मिन् युद्धे अहं एव महाकालो
मृत्युरूपः कोऽन्यः, महाँश्चासौ कालश्च महाकालः अत एव ममाग्रतः क्व यास्यसि,
किं कुर्वन् द्युजनं देवसमूहं निघ्नन् चूर्णयन् वीप्सालाघवार्थविशेषणद्वारेण हेतुः ।
अथ निघ्नन् परवशं निघ्नन् चूर्णयन् ॥३५॥
 
सं० व्या०--३५. नन्दिन्निति ॥ अद्रेः कन्या पर्वतदुहिता वो युष्मान् त्रायतां
रक्षतु, किं कुर्वती मृद्नती निघ्नती कं दैत्यं दितिजं महिषमित्यर्थः, क्व सति
प्रथमपरिभवे सति, कथमित्थमनेन प्रकारेण तदुच्यते, हे नन्दिन् ! नन्द्याख्य ! मे
प्रहारो घातः संप्रहारे युद्धे आनन्ददः आनन्ददाता, किंभूतः प्रहारो मुरजमृदुः
[मृदङ्ग] कोमलः एवं प्रहारोऽपि आनन्दद इति, अत्र छलपक्षे कालो यमः महांश्चासौ
कालश्चेति विग्रहः, किं कुर्वन् निघ्नन् व्यापादयन् अधुना इदानीं किं द्युजनं स्वर्ग-
जनं निघ्नन् इति वीप्सायां द्विवचनम्• ॥३५॥
 
<error>वज्रं मज्ञो</error> मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो
दण्डं तुण्डात् कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः ।
प्रापन् यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो-
ऽप्यायूंषीवायुधानि द्युवसतय [इति] स्तादुमा सा श्रिये वः ॥३६॥
 
----------------------
• श्लोकस्य द्वितीयपादस्य व्याख्या प्रतौ लिपिकर्तृप्रमादाद्विसृष्टा नाम, तदेवमनुपूर्यते--हे
गजमुख ! रोम्णि रोमसदृशे दन्ते रदने रुग्णे भग्ने सति किं व्रजसि किं पलायसे यतस्त्वं
पलायमानोऽपि वशीभूत एव गृहीत एव, लम्बोदरत्वात् क्षिप्रधावनं कर्तुं असमर्थोऽसि, इति
भावः ॥