This page has been fully proofread once and needs a second look.

पद्याङ्क ३५-३६ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ७९
 
कुं० वृ०--अद्रेः कन्या पर्वतपुत्री वः [त्रायतां] पालयतु, किकिं कुर्वती मृद्ती

चूर्णयन्ती, कं दैत्यं, किंभूतं इत्थं व्यावल्गन्तं, क्व प्रमथपरिभवे 'प्रमथाः स्युः

पारिषदा :दाः', प्रमथानां परिभवः प्रमथपरिभवः तस्मिन् प्रमथपरिभवे, कथं केन

प्रकारेण, हे नन्दिन् ! हे महेश्वरगण ! सम्प्रहारे सङ्ग्रामे यस्त्वदीयः प्रहार:
रः
आघातः स मम आनन्ददः, आनन्दं ददातीति आनन्ददः, अथवा हे नन्दिन् ! ते

प्रहारो मे श्रानन्ददो न अपि तु सम्यगानन्ददः, अथ श्रानन्दं द्यति खण्डयति आनन्दद:

अत्र उपहासमात्रं द्योत्यते; किंभूतः प्रहारः मुरजमृदु: मुरजे वाद्यविशेषे य

(28a) घातस्तद्वन्मृदुः यतस्त्वं मुरजवादनप्रवीणः तदीयो यः प्रहार: प्ररः अमुरजा-

घातसदृश एव ; अपि च, हे गजमुख ! त्वं किं व्रजसि किकिं यासि त्वं वशीभूतः

एव मया गृहीत एव, क्व सति दन्ते विषाणे रोम्णि अर्थात्न्मामके परिणमनात्

तिर्यक्रुदत्तप्रहारास्तु (त्तु) भग्ने सति तव एक एव दन्तोऽभूत्, तं श्रपि त्यक्त्वा

व्रजन् न लज्जसे ; श्रपि च, हे महाकाल ! हरगण ! त्वं एतन् मा ज्ञासी: यत्
सीः यत्
अहं एक एव महाकालो न द्वितीयः यावता इहास्मिन् युद्धे अहं एव महाकालो

मृत्युरूपः कोऽन्यः, महाँश्चासौ कालश्च महाकालः अत एव ममाग्रतः क्व यास्यसि,

किं कुर्वन् द्युजनं देवसमूहं निघ्नन् चूर्णयन् वीप्सालाघवार्थविशेषणद्वारेण हेतुः ।

अथ निघ्नन् परवशं निघ्नन् चूर्णयन् ॥३५॥
 

 
सं० व्या०--३५. नन्दिन्निति ॥ अद्रेः कन्या पर्वतदुहिता वो युष्मान् त्रायतां

रक्षतु, किं कुर्वती मृद्नती निघ्नती कं दैत्यं दितिजं महिषमित्यर्थः, क्व सति

प्रथमपरिभवे सति, कथमित्थमनेन प्रकारेण तदुच्यते, हे नन्दिन् ! नन्द्याख्य ! मे

प्रहारो घातः संप्रहारे युद्धे आनन्ददः आनन्ददाता, किंभूतः प्रहारो मुरजमृदुः

[मृदङ्ग] कोमलः एवं प्रहारोऽपि श्रानन्दद इति, अत्र छलपक्षे कालो यमः महांश्चासौ

कालश्चेति विग्रहः, किं कुर्वन् निघ्नन् व्यापादयन् अधुना इदानीं कि किं द्युजनं स्वर्ग-

जनं निघ्नन् इति वीप्सायां द्विवचनम् ॥३५॥
 

 
<error>
वज्र'रं मज्ञो</error> मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो
 

दण्डं तुण्डात् कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः ।

प्रापन् यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो-

ऽप्यायूयूंषीवायुधानि द्युवसतय [इति] स्तादुमा सा श्रिये वः ॥३६॥
 
^इ

 
----------------------
• श्
लोकस्य द्वितीयपादस्य व्याख्या प्रतीतौ लिपिकर्तृप्रमादाद्विसृष्टा नाम, तदेवमनुपूर्यते-- हे

गजमुख ! रोम्णि रोमसदृशे दन्ते रदने रुग्णे भग्ने सति किकिं व्रजसि किकिं पलायसे यतस्त्वं

पलायमानोऽपि वशीभूत एव गृहीत एव, लम्बोदरत्वात् क्षिप्रधावनं कतुर्तुं असमर्थोऽसि, इति
 

भावः ॥
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy