This page has not been fully proofread.

पद्याङ्क ३५-३६ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ७९
 
कुं० वृ०—अद्रेः कन्या पर्वतपुत्री वः [त्रायतां] पालयतु, कि कुर्वती मृद्मती
चूर्णयन्ती, कं दैत्यं, किंभूतं इत्थं व्यावल्गन्तं, क्व प्रमथपरिभवे 'प्रमथाः स्युः
पारिषदा :', प्रमथानां परिभवः प्रमथपरिभवः तस्मिन् प्रमथपरिभवे, कथं केन
प्रकारेण, हे नन्दिन् ! हे महेश्वरगण ! सम्प्रहारे सङ्ग्रामे यस्त्वदीयः प्रहार:
आघातः स मम आनन्ददः, आनन्दं ददातीति आनन्ददः, अथवा हे नन्दिन् ! ते
प्रहारो मे श्रानन्ददो न अपि तु सम्यगानन्ददः, अथ श्रानन्दं द्यति खण्डयति आनन्दद:
अत्र उपहासमात्रं द्योत्यते; किंभूतः प्रहारः मुरजमृदु: मुरजे वाद्यविशेषे य
आ (28a) घातस्तद्वन्मृदुः यतस्त्वं मुरजवादनप्रवीणः तदीयो यः प्रहार: प्रमुरजा-
घातसदृश एव; अपि च, हे गजमुख ! त्वं किं व्रजसि कि यासि त्वं वशीभूतः
एव मया गृहीत एव, क्व सति दन्ते विषाणे रोम्णि अर्थात्मामके परिणमनात्
तिर्यक्रुदत्तप्रहारास्तु (त्तु) भग्ने सति तव एक एव दन्तोऽभूत्, तं श्रपि त्यक्त्वा
व्रजन् न लज्जसे; श्रपि च, हे महाकाल ! हरगण ! त्वं एतन् मा ज्ञासी: यत्
अहं एक एव महाकालो न द्वितीयः यावता इहास्मिन् युद्धे अहं एव महाकालो
मृत्युरूपः कोऽन्यः, महाँश्चासौ कालश्च महाकालः अत एव ममाग्रतः क्व यास्यसि,
किं कुर्वन् द्युजनं देवसमूहं निघ्नन् चूर्णयन् वीप्सालाघवार्थविशेषणद्वारेण हेतुः ।
अथ निघ्नन् परवशं निघ्नन् चूर्णयन् ॥३५॥
 
सं० व्या० – ३५. नन्दिन्निति ॥ अद्रेः कन्या पर्वतदुहिता वो युष्मान् त्रायतां
रक्षतु, किं कुर्वती मृद्नती निघ्नती कं दैत्यं दितिजं महिषमित्यर्थः, क्व सति
प्रथमपरिभवे सति, कथमित्थमनेन प्रकारेण तदुच्यते, हे नन्दिन् ! नन्द्याख्य ! मे
प्रहारो घातः संप्रहारे युद्धे आनन्ददः आनन्ददाता, किंभूतः प्रहारो मुरजमृदुः
[मृदङ्ग] कोमलः एवं प्रहारोऽपि श्रानन्दद इति, अत्र छलपक्षे कालो यमः महांश्चासौ
कालश्चेति विग्रहः, किं कुर्वन् निघ्नन् व्यापादयन् अधुना इदानीं कि युजनं स्वर्ग-
जनं निघ्नन् इति वीप्सायां द्विवचनम् ॥३५॥
 
वज्र' मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो
 
दण्डं तुण्डात् कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः ।
प्रापन् यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो-
ऽप्यायूषीवायुधानि द्य वसतय [इति] स्तादुमा सा श्रिये वः॥३६॥
 
^इलोकस्य द्वितीयपादस्य व्याख्या प्रती लिपिकत प्रमादाद्विसृष्टा नाम, तदेवमनुपूर्यते-- हे
गजमुख ! रोम्णि रोमसदृशे दन्ते रदने रुग्ण भग्ने सति कि व्रजसि कि पलायसे यतस्त्वं
पलायमानोऽपि वशीभूत एव गृहीत एव, लम्बोदरत्वात् क्षिप्रधावनं कतु असमर्थोऽसि, इति
 
भावः ॥
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy