This page has been fully proofread once and needs a second look.

sवधि निपातितः, किं कुर्व्वन् इति जल्पन् इति कथयन्, इतीति किं, हे शिखिन् !
अग्ने ! मद्भयेन त्वं एकः किं निर्व्वाणः प्रशान्तो विगततेजाः संपन्नः किन्तु
शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाणः बाणरहितः संपन्नः, किः कुर्वन् रणशिरसि मां
विध्यन् ताडयन्, शार्ङ्गधन्वेत्यस्य कोऽभिप्रायः सुशिक्षितधनुर्विद्योऽपि सन्; अन्यच्च,
हे जलपते । समुद्र ! तव तथाविधं धैर्यं क्व गतं क्व यातं इदानीं दीनतां जहिहि
मुञ्च दैन्यं त्यज, यतस्त्वं न दीनः कदाचिदपि दीनो न भवसि, अत्र उक्तिलेशः,
नदीनां इनः स्वामी नदीन: यस्तु चपलानां स्वामी भवति स धैर्यं त्यजत्येव; अपि
च, हे सुनासीर ! इन्द्र ! हे भयपिशुन ! भयसूचक ! भयं पिशुनयति सूचयति
इति भयपिशुनः, शोभनं नासीरं सेनामुखं यस्य स सुनासीरः, ते नासीरधूलिः
सैन्यरेणुः शत्रुभङ्गे शक्ता इति श्रयते, अत्र अकारप्रश्लेषात् अभयपिशुन इति
सुनासीरत्वात् तव भयपिशुनता अनुचितेति कृत्वा तदेवं गुणविशिष्टस्त्वं ममाग्रतः
क्व यासि क्व पलायसे अधैर्यादेतत्ते न युक्तम् ॥३४॥
 
सं० व्या०--३४. निर्वाणः किमिति ॥ सा पार्वती वो युष्मान् पातु रक्षतु
यया पार्वत्या रिपुः शत्रुर्महिषोऽवधि हतः, किं कुर्वन् एवं जल्पन् इत्येवं, निर्वाणः
किं त्वमेक इत्यादि, हे शिखिन् ! वैश्वानर ! किं त्वमेकः केवलो रणशिरसि
सङ्ग्राममूर्द्धनि निर्वाणो निःस्नेहको जातः, किन्तु शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाणः,
किं कुर्वन् विध्यन् ताडयन् शरैर्मामित्यर्थान्नेयं शार्ङ्गं धनुरस्येति विग्रहः 'धनुषश्चा-
तडित्यसमासान्तः कोऽर्थः शरं मुञ्चन् विष्णुरपि निर्वाणो बाणरहितः न च
किमपि साधितं तत्ते धैर्यं क्व यातं, शिखिन् ! तव धैर्यं क्व जातं; जलपते ! वरुण !
जहिहि त्यज दीनतां दैन्यं, त्वं न दीनः, यः किल दीनो भवति स दीनत्वं जल्पति
त्वं नदीनो नदीनामिनः [स्वामी] इति, हे सुनासीर ! शक्र ! भयपिशुन ! भयसूचक !
आशीर्वज्रस्ते तव शत्रुभङ्गे शत्रूणां भङ्गे शक्तः समर्थः, न अधूलिः किन्तु धूलिः पातु
माम् प्रातर्विष्णुत्वादिति भावः, आशृणोतीत्याशीः इति शृणातेराङ्पूर्वात् क्विप्,
धिक् निन्दायां क्व यासि शक्र ! क्व गच्छसि, मम वशीभूत इत्यर्थः ॥ ३४॥
 
नन्दिन्नानन्ददो मे तव मुरजमृदुः संप्रहारे प्रहारः
किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख ! त्वं वशीभूत एव ।
निघ्नन्निघ्नन्निदानीं द्युजनमिह महाकाल एकोऽस्मि कोऽन्यः[^१]
कन्याद्रेर्दैत्यमित्थं प्रमथपरिभवे[^२] मृद्नती त्रायतां वः ॥३५॥
 
----------------------

[^१] ज० का० नान्यः ।
[^२] ज० प्रथमपरिभवे ।