This page has not been fully proofread.

T
 
७८ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ३४-३५ व्याख्या
 
sवधि निपातितः, किं कुर्व्वन् इति जल्पन् इति कथयन्, इतीति किं, हे शिखिन् !
अग्ने ! मद्भयेन त्वं एकः किं निर्व्वाण: प्रशान्तो विगततेजाः संपन्न: किन्तु
शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाण: बाणरहितः संपन्न:, कि कुर्वन् रणशिरसि मां
विध्यन् ताडयन्, शार्ङ्गधन्वेत्यस्य कोऽभिप्राय: सुशिक्षितधनुर्विद्योऽपि सन्; अन्यच्च,
हे जलपते । समुद्र ! तव तथाविधं धैर्य क्व गतं क्व यातं इदानीं दीनतां जहिहि
मुञ्च दैन्यं त्यज, यतस्त्वं न दीनः कदाचिदपि दीनो न भवसि, अत्र उक्तिलेशः,
नदीनां इनः स्वामी नदीन: यस्तु चपलानां स्वामी भवति स धैर्य त्यजत्येव पि
च, हे सुनासीर ! इन्द्र ! हे भयपिशुन ! भयसूचक ! भयं पिशुनयति सूचयति
इति भयपिशुन:, शोभनं नासीरं सेनामुखं यस्य स सुनासीरः, ते नासीरधूलिः
सैन्यरेणु: शत्रुभङ्गे शक्ता इति श्रयते, अत्र प्रकारप्रश्लेषात् प्रभयपिशुन इति
सुनासीरत्वात् तव भयपिशुनता अनुचितेति कृत्वा तदेवं गुणविशिष्टस्त्वं ममाग्रतः
क्व यासि क्व पलायंसे प्रधैर्यादितत्ते न युक्तम् ॥३४॥
 
सं० ० व्या० - ३४. निर्वाण: किमिति ॥ सा पार्वती वो युष्मान् पातु रक्षतु
यया पार्वत्या रिपुः शत्रुर्महिषोऽवधि हतः, कि कुर्वन् एवं जल्पन् इत्येवं, निर्वाणः
कि त्वमेक इत्यादि, हे शिखिन् ! वैश्वानर ! किं त्वमेकः केवलो रणशिरसि
सङ्ग्राममूर्द्धनि निर्वाणो निःस्नेहको जातः, किन्तु शार्ङ्गधन्वाऽपि विष्णुरपि निर्वाणः,
किं कुर्वन् विध्यन् ताडयन् शरैर्मामित्यर्थान्नेयं शाङ्गं धनुरस्येति विग्रहः 'धनुषश्चा-
तडित्यसमासान्तः कोऽर्थः शरं मुञ्चन् विष्णुरपि निर्वाणो बाणरहितः न च
किमपि साधितं तत्ते धैर्यं क्व यातं, शिखिन् ! तव धैर्यं क्व जातं; जलपते ! वरुण !
जहिहि त्यज दीनतां दैन्यं, त्वं न दीनः, यः किल दीनो भवति स दीनत्वं जल्पति
त्वं नदीनो नदीनामिनः [स्वामी] इति, हे सुनासीर ! शऋ ! भयपिशुन! भयसूचक !
आशीर्वस्ते तव शत्रुभङ्गे शत्रूणां भङ्गे शक्तः समर्थः, न प्रधूलिः किन्तु धूलिः पातु
माम् प्रातर्विष्णुत्वादिति भावः, प्राशृणोतीत्याशी: इति शृणातेराङ्पूर्वात् क्विप्
धिक् निन्दायां क्व यासि शक ! क्व गच्छसि मम वशीभूत इत्यर्थः ॥ ३४॥
नन्दिन्नानन्ददो मे तव मुरजमृदुः संप्रहारे प्रहारः
 
>
 
किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख ! त्वं वशीभूत एव ।
निघ्नन्निघ्नन्निदानीं द्यु जनमिह महाकाल एकोऽस्मि कोऽन्यः '
कन्याद्र`र्दैत्यमित्थं प्रमथपरिभवे' मृदूनती त्रायतां वः ॥ ३५॥
 
१० ज० का० नान्यः ।
२. ज० प्रथमपरिभवे ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy