This page has been fully proofread once and needs a second look.

ट्यात् । अपि च, हे स्वाहे ! अग्निभार्ये ! स्वस्था आस्व त्वमपि मा भैषीः, अन्यच्च,
हे देवस्त्रियः ! इयं रो(27b)हिणी मुधा रोदितीव, क्व स्वभर्त्तरि विषये, कथंभूते
स्वभर्त्तरि अमृतभुवि, अमृतस्य भूः स्थानं अमृतभूः तस्मिन् अमृतभुवि, यस्तु
अमृतभूः स किं म्रियते ; अन्यच्च, हे लक्ष्मि ! श्रीवत्सलक्ष्मोरसि श्रीवत्सो लक्ष्म
चिह्नं यस्य स श्रीवत्सलक्ष्मा तस्य उरस्तस्मिन् त्वं पुरा वससि वत्स्यसीत्यर्थः,
यावत् पुरा निपातयोर्लट् परेति वा पाठः । लक्ष्मीः श्रीर्विष्णूरसि परा उत्कृष्टा
वसतु, पूर्वं दैत्यभयात् मलिना आसीत्, साम्प्रतं निर्म्मला सती वसतु, क्व सति
शत्रौ हते सति ॥३३॥
 
सं० व्या०--३३. विद्राणेन्द्राणीति ॥ हिमवतोऽपत्यं हैमवती गौरी तस्याः
ह्रेपितं लज्जितं जयति ह्रेपितमिति ह्रेपः नपुंसके भावे क्त-प्रत्ययः, किंविशिष्टाया
हैमवत्याः हतरिपोः हतो रिपुर्महिषो यया तस्याः हतरिपोः, क्व सत्यां ह्रेपितं जयायां
प्रतीहार्यामित्येवमाश्वासयन्त्यां सम्बोधयन्त्यां, कं स्वर्गस्त्रैणं स्त्रीपुंसाभ्यां 'नञस्नञा-
विति तद्धिते नञ्,' स्वर्गे स्वर्गस्य वा स्त्रैणमिति तत्पुरुषः, किंविशिष्टं स्वर्गस्त्रैणं
आर्त्तं पीड़ितं, महिषासुरो यद्रवेणेति कथमाश्वासयन्त्यामित्याह, विद्राणेन्द्राणीति
आदि, हे इन्द्राणि ! इन्द्रपत्नि ! त्वं किं विद्राणा विषण्णा न पश्यसि, अस्मत्स्वामिन्या
महिषवधः कृत इति भावः, हे द्रविणददयिते ! धनदप्रिये ! पश्य अवलोकय सख्यं
स्वसख्याः कर्म्म महिषवघाख्यं सख्यमिति सख्युर्य इति य-प्रत्ययः, कस्याः सख्यं
स्वसख्या: गौर्याः इत्यर्थः; हे अग्निदयिते ! स्वाहे ! स्वस्था निराकुला तिष्ठ,
भर्त्तरि अग्नौ अमृतभुजि सति 'अमृतं हि विधिना यदग्नौ हूयते', कोऽर्थः महिषवधे
सति द्विजेष्टिर्भव्येन भविष्यति मुधा वृथा रोहिणी चन्द्रपत्नी रोदितीव; हे लक्ष्मि!
कमले ! श्रीवत्सलक्ष्मोरसि श्रीकृष्णस्योरसि पुरावत् वत्स्यसि इति इदानीं पुनः
सुखेन वससि, यावत् पुरानिपातनयोर्लडिति भविष्यति लट्-वर्तमानः ॥३३॥
 
निर्व्वाणः किं त्वमेको रणशिरसि शिखिन् शार्ङ्गधन्वाऽपि विध्यँ-
स्तत्ते धैर्यं क्व यातं जहिहि जलपते ! दीनतां त्वं न दीनः ।
शक्ता ते शत्रुभग्ने[^१] भयपिशुन सुनासीर नासीरधूलि-
र्धिग्यासि क्वेति जल्पन् रिपुरवधि यया सा वतात्पार्व्वती वः[^२] ॥३४॥
 
कुं० वृ०--सा पार्व्वती वो युष्मान् अवतात् रक्षतु, सा का यया शत्रुर्महिषो-
 
--------------------
[^१] ज० का० शक्तो नो शत्रुभङ्गे ।
[^२] ज० का० पार्वती पातु सा वः ।