This page has been fully proofread once and needs a second look.

कथ्यते, अतस्ते किं आधिक्यम्, एतस्याः पुनराधिक्यं अस्ति वृषात् महिषस्य
अधिकबलत्वात् ॥३२।
 
सं० व्या०--३२. सद्य इति ! शिवा गौरी वो युष्मान् पातु रक्षतु, किं
कृतवती उद्धृतवती उत्क्षिप्तवती, किं शूलं आयुधविशेषं, किंविशिष्टं शूलं सद्यः-
साधितसाध्यं सद्यस्तत्क्षणं साधितः साध्यो महिषो येन तत् तथोक्तं, क्व सति
सुरद्वेषिणि प्रोतप्रान्तविषक्त एव संलग्न एव देवशत्रौ किंभूते महिषा-
कारे महिष आकारो यस्येति विग्रहः, किंविशिष्टा शिवा अर्द्धस्मिता इत्येवं
जयया प्रतीहार्या केलौ परिहासे कृते सति तमेव केलिदृष्ट्या देवेत्यादिना दर्शयति,
हे देव ! भट्टारक ! यदि वृषध्वजो वृषभचिह्नो दिष्ट्या वर्द्धसे एषाऽपि नः
स्वामिनी शिवा गौरी महिषध्वजा महिषकेतुः सञ्जाता, वृषभमहिषयोः पशुत्वात्
सदृशचिह्ने युवयोर्द्वयोः सम्प्रति जाते, इति भावः ॥३२॥
 
विद्राणेन्द्राणि ! किं त्वं द्रविणददयिते ! पश्य संख्यं[^१] स्वसख्याः
स्वाहे ! स्वस्था स्वभर्त्तर्यमृतभुवि[^२] मुधा रोहिणी रोदितीव ।
लक्ष्मि ! श्रीवत्सलक्ष्मोरसि वससि पुरेत्यार्त्तमाश्वासयन्त्यां
स्वर्गस्त्रैणं जयायां जयति हतरिपोर्ह्रेपितं हैमवत्याः[^३] ॥३३॥
 
कुं० वृ०--हिमवतोऽपत्यं हैमवती तस्या ह्रेपितं लज्जितं जयति, भवति हि
मव[ह]तां लज्जा प्रत्यत्सं[क्ष]प्रभाववर्णनतः, कस्मिन् समये तदित्याह, इति एवं
प्रकारेण जयायां स्वर्गस्त्रैणं स्वर्गस्त्रीसमूहं आश्वासयन्त्यां सुखयन्तीं(न्त्यां), किं-
भूतं स्त्रैणं, आर्त्तं भीमं[तं], केन प्रकारेण, हे इन्द्राणि ! इन्द्रभार्ये ! त्वं किं
विद्रावणा(विद्राणा), संयोगादेरातोघातोर्यणवत इति जननिष्ठाकस्य अजाद्यतष्टाप्,
गता पलाय्य गता, इदानीं धीरा भव मध्यदेशप्राकृतभाषानुसारेण संस्कृतं इव तत्र
विद्राणेत्युच्यते; अन्यच्च, हे द्रविण्ददयिते ! धनदभार्ये ! त्वं अपि भयं मा कार्षीर्यतः
स्वसख्याः स्ववयस्यायाः संख्यं सङ्ग्रामं पश्य वीक्षस्व, एतदुक्तं भवति यत्र इत्थं शक्ति-
रूपा देवी स्वयं युध्यते तत्र किं अस्माकं भयं भवति सखीं त्वं सोत्तराशा ऐशान्याशानैक-
 
------------------------
[^१] ज० सख्यं ।
[^२] ज० का० स्वभर्त्तर्यमृतभुजि । अमृत<flag>सृजी</flag>त्यपि अन्यत् पाठान्तरं काव्यमालाप्रतौ दर्शितम् ।
[^३] क० हैमवत्या ।