2023-03-31 06:03:01 by manu_css
This page has been fully proofread once and needs a second look.
कलुषिता महिषकलुषिता भगवता शम्भुना मान्या सती मूर्ध्नि विधृता अनया रीत्या
महतां खलु दोषो भवतीति उपहासार्थः ॥३१॥
सं० व्या०--३१. मेरौ मे इति ॥ उमा गौरी वो युष्माकं ईतीः उपद्रवान्
भिन्द्यात् भिन्दतु, किंभूता शमिताराति: शमितो व्यापादितः अरातिः शत्रुर्यया
सा तथोक्ता, किं कुर्वती हसन्ती पतिं भर्त्तारं इति ; तदाह, मेरावित्यादि, महिषेति
तृतीये पादे सम्बोधनपदं तदिहापि संबोध्यते, हे महिष ! मेरौ देवाद्रौ रौद्रशृङ्ग-
क्षतवपुषि सति नैव मे रुषः कोपाः इतोऽप्यपरो महान् अपराध इति भावः, रौद्रं
च तत् शृङ्गं च तेन क्षतं वपुः शरीरं यस्य मेरोः इति विग्रहः । नदीनां भर्त्तारः
समुद्राः यत् रिक्ततां नीताः प्रापिताः तदपि हितमुपकारमभूत्, निःसपत्नो विगत-
शत्रुः, अत्र कोऽपि कश्चित् यत्तदत्राभिप्रायः, अस्मदीयः पतिः सरितो भर्त्ता तस्य
नदीनां भर्त्तारः सपत्ना भवन्त्यतः तद्रिक्तीकरणेनास्माकं त्वया प्रत्युपकृतं नाप-
राद्धमिति, एतन्नो मृष्यते नो क्षम्यते यत्तु महिषकलुषिता कलुषीकृता स्वर्धुनी
गङ्गा किंविशिष्टा मान्या पूज्या शम्भोरस्मत्प्रभोः क्व शिरसि मूर्द्ध्नि अत एव
शम्भोर्मान्येति उक्तम् ॥३१॥
सद्यःसाधितसाध्यमुद्धृतवती शूलं शिवा पातु वः
पादप्रान्तविलग्न[^१] एव महिषाकारे सुरद्वेषिणि ।
दिष्ट्या देव वृषध्वजो यदि भवानेषाऽपि नः स्वामिनी
सञ्जाता महिषध्वजेति जयया केलौ कृतेऽर्द्धस्मिता ॥३२॥
कुकुं० वृ०--शिवा शिवभार्या पार्वती वः पातु युष्मान् रक्षतु, किं कृतवती
शूलं उद्धृतवती अर्थात् महिषस्कन्धात्, किंविशिष्टं शूलं सद्यःसाधितसाध्यं
साधितं महिषवधलक्षणं साध्यं येन तत्तथा, क्व सति महिषाकारे सुरद्वेषिणि
पादप्रान्तविलग्ने एव सति, पादस्य प्रान्तोऽग्रं तत्र विलग्नः पादप्रान्तविलग्नस्त-
स्मिन् चरणप्रान्ते विलग्ने एवेति, किंविशिष्टा भवानी, जयया केलौ इति कृते
क्रीडायां कृतायां अर्द्धस्मिता अर्द्धं स्मितं यस्याः सा तथोक्ता ईषद्हसना इत्यर्थः,
इतीति किं, हे देव ! यदि भवान् वृषभध्वजः तर्हि दिष्ट्या दैवेन मङ्गलं एतत्,
एषाऽपि नोऽस्माकं स्वामिनी महिषध्वजा सञ्जाता, हे ईश ! लोकैर्यदि वृषध्वजः
कथ्यसे तदेतन्मा त्वं ज्ञासीर्यतो मां एव लोका वृषध्वजं कथयन्ति, न त्वां, इति
कुतो यत एषाऽपि नोऽस्माकं स्वामिनी महिषध्वजा सञ्जातेति तैर्महिषध्वजा
---------------------
[^१] ज० प्रोतप्रान्तविषक्त ; का० पादप्रान्तविषक्त ।