2023-06-09 08:04:16 by jayusudindra
This page has been fully proofread once and needs a second look.
महिषशिरसि कृतः प्रह्लारादो दैत्यो दिशोऽगात्; हासः स्त्रिया दूषणं, अतो हे सन्नताङ्गि !
एकं महिषं न व्यथयसि अन्यान् अपि व्यथयसि, अन्यान् कान् येऽत्र युध्यन्त एव न
आयुध्यमान-व्यथनात् दोष इति परिहासार्थः ॥३०॥
सं० व्या०--३०. क्षिप्तो बाण इति ॥ पत्युः शङ्करस्य परीहासः परिहासः
'प्रादीनां घञि बहुलमिति दीर्घः’ पतिपरिहासेन तुष्टा भवानी भवपत्नी वो युष्मान्
अवतु रक्षतु, कथं पतिपरीहास इत्यादि; क्षिप्तः प्रेरितो बाणः शरः, छलपक्षे तु
बाणोऽसुरः, कृतस्तेन वलिर्मध्यदेशः मध्यप्रदेशो निर्वलिर्वलिरहितो विहितः, किंभूतो
मध्यदेशः त्रिकविनतिततः त्रिकस्य विनत्या विनयेन तत आच्छादितः, एकत्र वलयो
वल्यः अन्यत्र बलिरसुरः ; क्षतरिपुशिरसः रिपोः शिरो रिपुशिरः महिषमूर्द्धेत्यर्थः
क्षतं च तत् शिरश्च तत् ततः क्षतरिपुशिरसः, पादपातैश्चरणपातनैर्नूपुरप्रह्लारादः
शब्दोऽगात्, छलपक्षे प्रह्लादोऽसुरः सङ्ग्रामे युद्धे संतता अविच्छिन्नत्वेन महिषं
व्यथयसि अपि तु अन्यानपि, ये के पुनस्ते येऽत्र विद्यन्ते नैव बाणबलिप्रह्लादा
इति ॥३०॥
मेरौ मे रौद्रशृङ्गक्षतवपुषि रुषो नैव नीता नदीनां
भर्त्तारो रिक्ततां यत्तदपि हितमभून्निःसपत्नोऽत्र कोऽपि ।
एतन्नो मृष्यते यन्महिषकलुषिता स्वर्धुनी मूर्ध्नि मान्या
शम्भोर्भिद्यात्[^१] हसन्ती पतिमिति शमिताsरातिरीतीरुमा वः ॥३१॥
कुं० वृ०--उमा पार्वती वो युष्माकं ईतीः उपद्रवान् भिद्यात् नाशयतु,
किंभूता उमा शमिताऽरातिः हतशत्रुः, किं कुर्वती इति पतिं हसन्ती, इतीति किं
हे शम्भो ! मेरौ पर्वते शृङ्गक्षतवपुषि सति मे मम रुषः कोपाः नैव न जाताः ;
रौद्रे च ते शृङ्गे च रौद्रशृङ्गे ताभ्यां क्षतं विदारितं वपुर्यस्य स तथा तस्मिन्
अयमर्थ: । महिषेण शृङ्गाभ्यां मेरुपर्वते विध्वस्ते मे रुषो न जाताः, मे अरौ शत्रौ
पितुः स्पर्द्धित्वात् यत् नदीनां भर्त्तारः समुद्राः रिक्ततां नीताः शोषिताः, तदपि
मम हितं अभूत् । अत्र समुद्ररिक्तीकरणे कोऽपि निःसपत्नो जातः, कोऽपीत्यनेन
सर्वनाम्ना नामग्रहणायोगात् स्वकीयं भर्त्तारं परामृशति, अयं आशयः ।
शम्भुरपि नद्या गङ्गाया भर्त्ता समुद्रा अपि नदीनां (27a) भर्त्तारः अतस्तद्रिक्ती-
करणे ईश्वरस्य सपत्नविध्वंसात् हितं एव अभूत् । एतच्च मया नो मृष्यते न
सह्यते, किं तत्, यत् स्वर्धुनी गङ्गा महिषकलुषिता सती मूर्ध्नि मान्या महिषेण
----------------------
[^१] ज० क० भिन्द्यात् ।
एकं महिषं न व्यथयसि अन्यान् अपि व्यथयसि, अन्यान् कान् येऽत्र युध्यन्त एव न
आयुध्यमान-व्यथनात् दोष इति परिहासार्थः ॥३०॥
सं० व्या०--३०. क्षिप्तो बाण इति ॥ पत्युः शङ्करस्य परीहासः परिहासः
'प्रादीनां घञि बहुलमिति दीर्घः’ पतिपरिहासेन तुष्टा भवानी भवपत्नी वो युष्मान्
अवतु रक्षतु, कथं पतिपरीहास इत्यादि; क्षिप्तः प्रेरितो बाणः शरः, छलपक्षे तु
बाणोऽसुरः, कृतस्तेन वलिर्मध्यदेशः मध्यप्रदेशो निर्वलिर्वलिरहितो विहितः, किंभूतो
मध्यदेशः त्रिकविनतिततः त्रिकस्य विनत्या विनयेन तत आच्छादितः, एकत्र वलयो
वल्यः अन्यत्र बलिरसुरः ; क्षतरिपुशिरसः रिपोः शिरो रिपुशिरः महिषमूर्द्धेत्यर्थः
क्षतं च तत् शिरश्च तत् ततः क्षतरिपुशिरसः, पादपातैश्चरणपातनैर्नूपुरप्रह्