This page has not been fully proofread.

७४ ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ३०-३१ व्याख्या
 
महिषशिरसि कृतः प्रह्लादो दैत्यो दिशोऽगात्; हासः स्त्रिया दूषणं, तो हे सन्नताङ्गि !
एकं महिषं न व्यथयसि अन्यान् अपि व्यथयसि, अन्यान् कान् येऽत्र युध्यन्त एव न
आयुध्यमान व्यथनात् दोष इति परिहासार्थः ॥ ३०॥
 
सं० व्या० - ३०. क्षिप्तो बारण इति ॥ पत्युः शङ्करस्य परीहासः परिहास:
'प्रादीनां घञि बहुलमिति दीर्घः' पतिपरिहासेन तुष्टा भवानी भवपत्नी वो युष्मान्
अवतु रक्षतु, कथं पतिपरीहास इत्यादि; क्षिप्तः प्रेरितो वाणः शरः, छलपक्षे तु
वाणोऽसुरः कृतस्तेन वलिर्मध्यदेशः मध्यप्रदेशो निर्वलिर्बलिरहितो विहितः, किंभूतो
मध्यदेशः त्रिकविनतिततः त्रिकस्य विनत्या विनयेन तत प्राच्छादितः, एकत्र वलयो
वल्य: अन्यत्र बलिरसुरः; क्षतरिपुशिरस: रिपोः शिरो रिपुशिरः महिषमूर्द्धेत्यर्थः
क्षतं च तत् शिरश्च तत् ततः क्षतरिपुशिरसः, पादपातैश्चरणपातनैनू पुरप्रह्लादः
शब्दोऽगात्, छलपक्षे प्रह्लादोऽसुरः सङ्ग्रामे युद्धे संतता अविच्छिन्न त्वेन महिषं
व्यथयसि अपितु अन्यानपि, ये के पुनस्ते येऽत्र विद्यन्ते नैव वाणवलिप्रह्लादा
इति ॥ ३०॥
 

 
मेरौ मे रौद्रशृङ्गक्षतवपुषि रुषो नैव नीता नदीनां
 
भर्त्तारो रिक्ततां यत्तदपि हितमभून्निः सपत्नोऽत्र कोऽपि ।
एतन्नो मृष्यते यन्महिपकलुषिता स्वधुनी मूर्ध्नि मान्या
शम्भोर्भिद्यात्' हसन्ती पतिमिति शमिताsरातिरीतीरुमा वः ॥३१॥
 
T
 
कुं० वृ० - उमा पार्वती वो युष्माकं ईती: उपद्रवान् भिद्यात् नाशयतु,
किंभूता उमा शमिताऽरातिः हतशत्रुः, किं कुर्वती इति पति हसन्ती, इतीति कि
हे शम्भो ! मेरौ पर्वते शृङ्गक्षतवपुषि सति मे मम रुष: कोपा: नैव न जाताः;
रौद्रे च ते शृङ्ग च रौद्र ताभ्यां क्षतं विदारितं वपुर्यस्य स तथा तस्मिन्
अयमर्थ: । महिषेण शृङ्गाभ्यां मेरुपर्वते विध्वस्ते मे रुषो न जाताः, मे अरो शत्रो
पितुः स्पद्धित्वात् यत् नदीनां भर्तारः समुद्राः रिक्ततां नीताः शोषिताः, तदपि
मम हितं अभूत् । अत्र समुद्ररिक्तीकरणे कोऽपि निःसपत्नो जातः कोऽपीत्यनेन
सर्वनाम्ना नामग्रहणायोगात् स्वकीयं भर्तारं परामृशति, श्रयं प्राशयः ।
शम्भुरपि नद्या गङ्गाया भर्ता समुद्रा अपि नदीनां ( 273 ) भर्तारः अतस्तद्रिक्ती-
करणे ईश्वरस्य सपत्नविध्वंसात् हितं एव अभूत् । एतच्च मया नो मृष्यते न
सह्यते, कि तत्, यत् स्वर्धुनी गङ्गा महिषकलुषिता सती मूर्ध्नि मान्या महिषेण
 
१. ज० क० भिन्द्यात् ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy