This page has been fully proofread once and needs a second look.

स्वचरणगरिमग्रस्तगीर्वाणगर्वा स्व आत्मीयः चरणस्तस्य गरिमा गुरुत्वं तेन ग्रस्त
आक्रान्तो गीर्वाणानां गर्वो यया सा तथोक्ता; इत्येवमात्तहासा गृहीतहासा गौरी कथ-
मिति तदाह, गाहस्व व्योममार्गमित्यादि; हे भानो ! व्योममार्गं गाहस्व आकाशपथं
विलोडय विश्रब्धं अश्वैर्वाजिभिः, कथंभूतैः गतमहिषभयैः महिषाद् गतं भयं येषां ते
तथोक्ताः, हे विश्वकर्मन् ! हे देवशिल्पिन् ! शार्ङ्गिणो विष्णोः अन्यत् शार्ङ्गं
धनुर्नवं प्रत्यग्रं शृङ्गाभ्यां न घटयसि न करोषि, किमनेन शार्ङ्गिणः पुरातनेनेति
भावः; ईश्वर ! शम्भो ! इभस्य इयं ऐभी, 'तस्येदृक् इत्यण्' इयं त्वक् इभसम्ब-
न्धिनी निष्ठुरा कठिना इमां मृदुलां माहिषीं बिभृहि धेहि, इति ॥२
 
क्षिप्तो बाणः कृतस्ते त्रिकविनतिनतो[^१] निर्वलिर्मध्यदेशः
प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात् ।
सङ्ग्रामे सन्नताङ्गि[^२] व्यथयसि महिषं नैकमन्यानपि त्वं
ये युध्यन्तेऽत्र[^३] नैवेत्यवतु पतिपरीहासतुष्टा[^४] शिवा वः[^५] ॥३०॥
 
कुं० वृ०--भवानी वः अवतु, किंविशिष्टा इति पतिपरीहासतुष्टा, परि
समन्तात् हसनेन केलिना तुष्टा, पत्युः परीहासः पतिपरीहासः तेन तुष्टा, इतीति
किं, हे सन्नताङ्गि ! सन्नतं अङ्गं यस्याः सा सन्नताङ्गी तस्याः सम्बोधनं, सङ्ग्रामे
युद्धकाले त्वया बाणः शरः क्षिप्तः; अनु च, मध्यदेशो निर्वलिः कृतः निर्गता वलयो
यस्मात् स निर्वलिर्वलिरहित इत्यर्थः । स्त्रीणां निर्वलित्वं दूषणं भूषणहानिः,
किंविशिष्टो मध्यदेशः, त्रिकविनतिनतः त्रिकस्य विनतिर्विनमनं तया नतः,
किमुक्तं भवति, बाणस्य मोक्तुः संस्थानविशेषात् त्रिकस्य पृष्ठदेशस्य विनमनात्
उदरं निर्वलीकं भवति इति स्वभावः तं सशब्दच्छलेन वदति, बाणशब्दः शरे
दैत्ये च वर्त्तते, 'बलिर्वल्यां दानवे च', हे देवि ! त्वया बाणः क्षिप्तः, बाणोऽसुर:
क्षिप्तः मध्यदेशात् बलिर्दैत्यो निर्वासितः, अन्यस्तु यं क्षिपति तं एव निर्वासयति
त्वया तु क्षिप्तो बाणो निर्वासितो बलिरिव तदाश्चर्यं; अन्यच्च, पादपातैः कृत्वा
नूपुरस्य प्रह्रादः शब्दो दिशोऽगात्; 'प्रह्रादो नूपुरस्य ध्वनौ दैत्ये च', कथंभूतस्य
नूपुरस्य क्षतरिपुशिरसः क्षतं रिपुशिरो येन स तथा तस्य, चित्रं अत्र पादपातो
 
----------------------
[^१] ज० का० त्रिकविनतिततो ।
[^२] ज० संतता वो ।
[^३] ज० ये विद्यन्तेऽत्र ।
[^४] का० हृष्टा ।
[^५] ज० भवानी ।