This page has been fully proofread once and needs a second look.

पद्याङ्क २९-३० व्याख्या ।
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ७३
 
स्वचरणगरिमग्रस्तगीर्वाणगर्वा
 
स्व आत्मीयः चरणस्तस्य गरिमा गुरुत्वं तेन ग्रस्त

आक्रान्तो गीर्वाणानां गर्योवो यया सा तथोक्ता; इत्येवमात्तहासा गृहीतहासा गौरी कथ-

मिति तदाह, गाहस्व व्योममार्गमित्यादि; हे भानो ! व्योममार्गं गाहस्व आकाशपथं

विलोडय विश्रब्धं प्रश्वैर्वाजिभिः, कथंभूतैः गतमहिषभयैः महिषाद् गतं भयं येषां ते

तथोक्ताः, हे विश्वकर्मन् ! हे देवशिल्पिन् ! शार्ङ्गिणो विष्णोः अन्यत् शा
र्ङ्गं
धनुर्नवं प्रत्यग्रं शृङ्गाभ्यां न घटयसि न करोषि, किमनेन शार्ङ्गिणः पुरातनेनेति

भावः; ईश्वर ! शम्भो ! इभस्य इयं ऐभी, 'तस्येदृक् इत्यण्' इयं त्वक् इभसम्ब-

न्धिनी निष्ठुरा कठिना इमां मृदुलां माहिषीं बिभूभृहि धेहि, इति ॥२६॥
 

 
क्षिप्तो बाणः कृतस्ते त्रिकविनतिनतो'[^१] निर्वलिर्मध्यदेशः
 

प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात् ।

सङ्ग्रामे सन्नताङ्गि[^२] व्यथयसि महिषं नैकमन्यानपि त्वं

ये युध्यन्तेऽत्र[^३] नैवेत्यवतु पतिपरीहासतुष्टा'[^४] शिवा वः[^५] ॥३०॥
 
-
 

 
कुं० वृ० - --भवानी वः वतु, किंविशिष्टा इति पतिपरीहासतुष्टा, परि

समन्तात् हसनेन केलिना तुष्टा, पत्युयुः परीहासः पतिपरीहासः तेन तुष्टा, इतीति
कि

किं
, हे सन्नताङ्गि ! सन्नतं अङ्गं यस्याः सा सन्नताङ्गी तस्याः सम्बोधनं, सङ्ग्रामे

युद्धकाले त्वया बाणः शरः क्षिप्तः; अनु च, मध्यदेशो निर्वलिः कृतः निर्गता वलयो

यस्मात् स निर्वलिर्वलिरहित इत्यर्थः । स्त्रीणां निर्वलित्वं दूषणं भूषणहानि:,
कि
निः,
किं
विशिष्टो मध्यदेशः, त्रिकविनतिनतः त्रिकस्य विनतिर्विनमनं तया नतः,

किमुक्तं भवति, बाणस्य मोक्त:तुः संस्थान विशेषात् त्रिकस्य पृष्ठदेशस्य विनमनात्

उदरं निर्वलीकं भवति इति स्वभावः तं सशब्दच्छलेन वदति, बाणशब्दः शरे

दैत्ये च वर्त्तते, 'बलिर्वल्यां दानवे च', हे देवि ! त्वया बाणः क्षिप्तः, बाणोऽसुर:

क्षिप्तः मध्यदेशात् बलिर्दैत्यो निर्वासितः, अन्यस्तु यं क्षिपति तं एव निर्वासयति
त्वयां

त्वया
तु क्षिप्तो बाणो निर्वासितो बलिरिव तदाश्चर्यं; अन्यच्च, पादपातैः कृत्वा

नूपुरस्य प्रह्लारादः शब्दो दिशोऽगात्; 'प्रह्लारादो नूपुरस्य ध्वनीनौ दैत्ये च', कथंभूतस्य

नूपुरस्य क्षतरिपुशिरसः क्षतं रिपुशिरो येन स तथा तस्य, चित्रं अत्र पादपातो
 

 
----------------------
[^१] ज० का० त्रिकविनतिततो ।
[^

 
] ज० संतता वो ।
[^३] ज० ये विद्यन्तेऽत्र ।
[^
.] का० हृष्टा ।
 

[^
.] ज० भवानी ।
 
T
 
१. ज० का० त्रिकविन तिततो ।
 
२० ज० संतता वो ।
 
३. ज० ये विद्यन्तेऽत्र ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy