This page has been fully proofread once and needs a second look.

भवति, कलाभिः सम्पूर्णो भवति, इति वदत एव गीः प्राणाश्च समा एव निःसृताः,
यावदिति पूर्वोक्तं वदति तावदेव कण्ठश्च्छिन्न इत्यर्थः ॥२८॥
 
सं० व्या०--२८. वक्त्राणामिति ॥ सा अद्रिजा पार्वती वो युष्मान् अवतात्
रक्षतु यया पार्वत्या इच्छया मृदुपदमृदितस्य मृदुपदेन मृदितस्य गीर्वाणारेर्गीर्वाणानां
दानवानां (देवानां) अरिस्तस्यारेः शत्रोः महिषस्य कण्ठतः कण्ठात् इत्येवं गीर्वाक्
निःसृता निर्गता सममसुभिः प्राणैः सह कथं गीर्निःसृतेत्याह, वक्त्राणां विक्लव
इत्यादि, हे स्कन्द ! कार्तिकेय ! किं विक्लवो विधुरस्त्वं वक्त्राणां षण्णां मुखानां
विषण्णां विद्राणां रुचं कान्ति बत वहसि, बत-शब्दः खेदे, अन्याश्चापराः षट्
मातरः कृत्तिकाः जनन्यस्ते तव पार्वत्यन्ते तव मातरि हतायां इति भावः । भव !
शङ्कर ! त्वं सकलो भव समग्रो भव, केन कारणेन शरीरार्द्धलब्ध्या शरीरार्द्धस्य
लब्धिर्लाभस्तया, हेतौ तृतीया । जिह्मां कुटिलां कालीं दयितां अद्य अहं हन्मि
व्यापादयामि अयमर्थः, भव ! त्वयास्यै शरीरं (शरीरार्द्धं) दत्तं, त्वं भूयो मया
व्यापादितायामस्यां (तत्) लब्ध्वा समग्रो भव ॥२८॥
 
गाहस्व व्योममार्गं गतमहिषभयैर्ब्रध्न विश्रब्धमश्वैः
शृङ्गाभ्यां विश्वकर्मन् घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत् ।
ऐभी त्वङ्निष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा
गौरी वोऽव्यात् क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥२
 
कुं० वृ०--गौरी पार्वती वो युष्मान् अव्यात्, किंविशिष्टा गौरी, स्वचरण-
गरिमग्रस्तगीर्वाणगर्वा स्वस्य चरणः स्वचरणः स्वचरणस्य गरिमा गौरवं तेन
ग्रस्त: गीर्वाणानां देवानां गर्यो यया सा तथा, देवानां प्रत्यक्षं महिषासुरवधेन
ग्रस्ताऽहङ्कारा, पुनः किंविशिष्टा क्षतारिर्हतारिः, किंविशिष्टा आत्तहासा, आत्तो
हासो यया, इतीति किं, हे ब्रध्न ! ब्रध्नाति तेजसा दृष्टीरिति ब्रध्नः तत्सम्बोधनं
हे ब्रध्न ! अश्वैः व्योममार्गं गाहस्व, कथं, स्वैरं विचर कथं यथा भवति विश्रब्धं
यथा भवति तथा विश्वासधीरत्वं यथा भवति तथा, किंविशिष्टैरश्वैः गतमहिष-
भयैः गतं महिषाद् भयं येषां ते गतमहिषभयाः तैः; अन्यच्च, हे विश्वकर्मन् !
विधातः ! शार्ङ्गिणो विष्णोर्नवं शार्ङ्गं धनुः महिषशृङ्गाभ्यां न घटयसि[26b]
अपि तु घटयसि; अपि च, हे ईश्वर ! इमां महिषस्य कोमलां त्वचं बिभृहि इयं
ऐभी इभस्य त्वक् निष्ठुरा तां त्यज ॥२
 
सं० व्या०--२. ग्राहस्वेति ॥ गौरी भवानी वो युष्मान् अव्यात् रक्षतु,
किंविशिष्टा क्षतारिः क्षतो निहतो अरिर्महिषो ययेति विग्रहः, पुनरपि किंभूता