This page has been fully proofread once and needs a second look.

७२ ]
 
महाकविवाण-विरचितं चण्डीशतकम् । पद्याङ्क २८-२९ व्याख्या
 
भवति, कलाभिः सम्पूर्णो भवति, इति वदत एव गी:गीः प्राणाश्च समा एव निःसृताः,

यावदिति पूर्वोक्तं वदति तावदेव कण्ठश्च्छिन्न इत्यर्थः ॥२८॥
 

 
सं० व्या०--२८. वक्त्राणामिति ॥ सा द्रिजा पार्वती वो युष्मान् श्रवतात्

रक्षतु यया पार्वत्या इच्छया मृदुपदमृदितस्य मृदुपदेन मूमृदितस्य गीर्वाणारेर्गीर्वाणानां

दानवानां (देवानां) अरिस्तस्यारे:रेः शत्रो:रोः महिषस्य कण्ठतः कण्ठात् इत्येवं गीर्वाक्

निःसृता निर्गता सममसुभिः प्राणैः सह कथं गीर्निःसृतेत्याह, वक्त्राणां विक्लव

इत्यादि, हे स्कन्द ! कार्तिकेय ! किकिं विक्लवो विधुरस्त्वं वक्त्राणां षण्णां मुखानां

विषण्णां विद्राणां रुचं कान्ति बत वहसि, बत-शब्दः खेदे, अन्याश्चापराः षट्

मातरः कृत्तिकाः जनन्यस्ते तव पार्वत्यन्ते तव मातरि हतायां इति भावः । भव !

शङ्कर ! त्वं सकलो भव समग्रो भव, केन कारणेन शरीरार्द्धलब्ध्या शरीरार्द्धस्य

लब्धिर्लाभस्तया, हेतौ तृतीया । जिह्मां कुटिलां कालीं दयितां अद्य ग्रहं हन्मि

व्यापादयामि अयमर्थः, भव ! त्वयास्यै शरीरं (शरीरार्द्धं) दत्तं, त्वं भूयो मया

व्यापादितायामस्यां (तत्) लब्ध्वा समग्रो भव ॥२८॥

 
गाहस्व व्योममार्गं गतमहिषभ यैवघ्र्ब्रध्न विश्रव्ब्धमश्वैः
 

शृङ्गाभ्यां विश्वकर्मन् घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत् ।

ऐभी त्वङ्निष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा

गौरी वोऽव्यात् क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥२६॥
 
T
 

 
-
 

 
कुं० वृ० - -गौरी पार्वती वो युष्मान् अव्यात्, किंविशिष्टा गौरी, स्वचरण-

गरिमग्रस्तगीर्वाणगर्वा स्वस्य चरण:णः स्वचरणः स्वचरणस्य गरिमा गौरवं तेन

ग्रस्त: गीर्वाणानां देवानां गर्यो यया सा तथा, देवानां प्रत्यक्षं महिषासुरवधेन

ग्रस्ताऽहङ्कारा, पुनः किकिंविशिष्टा क्षतारिर्हतारिः, किंविशिष्टा प्राआत्तहासा, आत्तो

हासो यया, इतीति किकिं, हे ब्रघ्ध्न ! ब्रध्नाति तेजसा दृष्टीरिति ब्रघ्ध्नः तत्सम्बोधनं

हे ब्रघ्ध्न ! अश्वैः व्योममार्गं गाहस्व, कथं, स्वैरं विचर कथं यथा भवति विश्रब्धं

यथा भवति तथा विश्वासधीरत्वं यथा भवति तथा, किंविशिष्टैरश्वैः गतमहिष-

भयैः गतं महिषाद् भयं येषां ते गतमहिषभयाः तैः; अन्यच्च, हे विश्वकर्मन् !

विधातः ! शार्ङ्गिणो विष्णोर्नवं शार्ङ्गं धनुः महिषशृङ्गाभ्यां न घटयसि[26b]

अपि तु घटयसि; अपि च, हे ईश्वर ! इमां महिषस् कोमलां त्वचं विबिभृहि इयं

ऐभी इभस्य त्वक् निष्ठुरा तां त्यज ॥२६॥
 
-
 

 
सं० व्या०--२६. ग्राहस्वेति ॥ गौरी भवानी वो युष्मान् अव्यात् रक्षतु,
कि

किं
विशिष्टा क्षतारि:रिः क्षतो निहतो अरिमंर्महिषो ययेति विग्रहः, पुनरपि किंभूता
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy