2023-03-13 13:35:06 by ambuda-bot
This page has not been fully proofread.
७२ ]
महाकविवाण-विरचितं चण्डीशतकम् । पद्याङ्क २८-२९ व्याख्या
भवति, कलाभिः सम्पूर्णो भवति, इति वदत एव गी: प्राणाश्च समा एव निःसृताः,
यावदिति पूर्वोक्त वदति तावदेव कण्ठश्च्छिन्न इत्यर्थः ॥२८॥
सं० व्या० – २८. वक्त्राणामिति ॥ सा ऋद्रिजा पार्वती वो युष्मान् श्रवतात्
रक्षतु यया पार्वत्या इच्छया मदुपदमृदितस्य मदुपदेन मूदितस्य गीर्वाणारेर्गीर्वाण नां
दानवानां (देवानां) अरिस्तस्यारे: शत्रो: महिषस्य कण्ठतः कण्ठात् इत्येवं गीर्वाक्
निःसृता निर्गता सममसुभिः प्राणैः सह कथं गीनिःसृतेत्याह, वक्त्राणां विक्लव
इत्यादि, हे स्कन्द ! कार्तिकेय ! कि विक्लवो विधुरस्त्वं वक्त्राणां षण्णां मुखानां
विषण्णां विद्राणां रुचं कान्ति बत वहसि, बत-शब्दः खेदे, अन्याश्चापराः षट्
मातरः कृत्तिकाः जनन्यस्ते तव पार्वत्यन्ते तव मातरि हतायां इति भावः । भव !
शङ्कर ! त्वं सकलो भव समग्रो भव, केन कारणेन शरीरार्द्धलब्ध्या शरीरार्द्धस्य
लब्धिलभस्तया, हेतौ तृतीया । जिह्मां कुटिलां कालीं दयितां अद्य ग्रहं हन्मि
व्यापादयामि अयमर्थः, भव ! त्वयास्यै शरीरं (शरीरार्द्ध ) दत्तं, त्वं भूयो मया
व्यापादितायामस्यां (तत्) लब्ध्वा समग्रो भव ॥२८॥
गाहस्व व्योममार्गं गतमहिषभ यैवघ्न विश्रव्धमश्वैः
शृङ्गाभ्यां विश्वकर्मन् घटयसि न नवं शार्ङ्गणः शार्ङ्गमन्यत् ।
ऐभी त्वनिष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यातहासा
गौरी वोऽव्यात् क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥२६॥
T
०
-
कुं० वृ० - गौरी पार्वती वो युष्मान् अव्यात्, किंविशिष्टा गौरी, स्वचरण-
गरिमग्रस्तगीर्वाणगर्वा स्वस्य चरण: स्वचरणः स्वचरणस्य गरिमा गौरवं तेन
ग्रस्त: गीर्वाणानां देवानां गर्यो यया सा तथा, देवानां प्रत्यक्षं महिषासुरवधेन
ग्रस्ताऽहङ्कारा, पुनः किविशिष्टा क्षतारिर्हतारिः, किंविशिष्टा प्रातहासा, तो
हासो यया, इतीति कि, हे ब्रघ्न ! ब्रध्नाति तेजसा दृष्टीरिति ब्रघ्नः तत्सम्बोधनं
हे ब्रघ्न ! अश्वैः व्योममार्गं गाहस्व, कथं, स्वैरं विचर कथं यथा भवति विश्रब्धं
यथा भवति तथा विश्वासधीरत्वं यथा भवति तथा, किंविशिष्टैरश्वैः गतमहिष-
भयैः गतं महिषाद् भयं येषां ते गतमहिषभयाः तैः; अन्यच्च, हे विश्वकर्मन् !
विधातः ! शाङ्गिणो विष्णोर्नवं शाङ्गं धनुः महिषशृङ्गाभ्यां न घटयसि[26b]
अपि तु घटयसि; अपि च, हे ईश्वर ! इमां महिषस्थ कोमलां त्वचं विभृहि इयं
ऐभी इभस्य त्वक् निष्ठुरा तां त्यज ॥२६॥
-
सं० व्या० – २६. ग्राहस्वेति ॥ गौरी भवानी वो युष्मान् अव्यात् रक्षतु,
किविशिष्टा क्षतारि: क्षतो निहतो अरिमंहिषो ययेति विग्रहः, पुनरपि किंभूता
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy