This page has been fully proofread once and needs a second look.

सं० व्या०--२७. आस्तामिति ॥ उमा गौरी वो युष्मान् अव्यात् रक्षतु, किं
कुर्वती विदग्धं दनुजं निर्दहन्ती रुषा दृष्ट्वा रौद्रदृष्ट्या महिषं सोत्प्रास जल्पन्तं
दलयन्तीत्यर्थः, आलापानां पाताः पतनानि आलापपाताः सहोत्प्रासेन उल्लण्ठनेन वर्तन्ते
इति सोत्प्रासाश्च ते आलापाश्च तैरित्येवं सोत्प्रासालापपातैः, विदग्धं विचक्षणं
दनुजं तदुच्यते 'आस्तां मुग्धेऽर्द्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्या'दि, आस्तां
तिष्ठतु मुग्धे ! अर्द्धचन्द्रः शरविशेषः, छलपक्ष तु अर्द्धचन्द्रः अर्द्धं नपुंसकमिति
तत्पुरुषसमासः, क्षिप मुञ्च सुरसरितं गङ्गां या कीदृशी सपत्नी भवत्यास्तव इद-
मुक्तं भवति, अर्द्धचन्द्रस्तव भर्त्तुश्चूडामणिः, इयं तु भार्या अतः क्षेपणे योग्ये इति,
पाशश्चायुधविशेषः 'ततोऽङ्गश्चादौ कत्' पाशकः, पाशको दुंदुभिरुच्यते ततः
शब्दच्छलेनाह अमुनैकेन पाशकेन अलं पर्याप्तं अपरं द्वितीयं पाशकं मुञ्च द्वाभ्यां
पाशकाभ्यां क्रीडेति, शूलमायुधं व्याधिश्च, तत्र छलेनाह शूलं प्रागेव पूर्वमेव सम
शिरसि लग्नं, किमिदानीं शूलं क्षिपसि इति भावः, कथं शिरःशूलं यत् यस्मात्
स्त्री युद्य्रसे, किल पुरुषस्य युद्धेऽधिकारः ॥२७॥
 
वक्त्राणां विक्लवः किं वहसि बत रुचं स्कन्द षण्णां विषण्णा-
मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीराईलब्ध्या ।
जिह्मां हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निःसृता[^१] गी-
र्गीर्वाणारेर्ययेच्छामृदुपददलितस्याद्रिजा[^२] सावताद्वः ॥२८॥
 
कुं० वृ०--सा अद्रिजा पार्व्वती वो युष्मान् अवतात्, सा का यया इच्छा-
मृदुपददलितस्य मृदितस्य, गीर्वाणी येषां ते गीर्वाणाः तेषां अरिः तस्य गीर्वाणारे:
कण्ठतः असुभिः समं प्राणैः सह इति गीर्निःसृता, इच्छया मृदु अकृताऽभिभारं
यत्पदं तेन दलितः तस्य, इति किं, हे स्कन्द ! बत इति खेदे, षण्णां वक्त्राणां विषण्णां
विच्छाय रुचं कान्तिं किं वहसि, मा वह, ते तव अन्याः अपराः कृत्तिकाः षण्मातरः
सन्ति, तासु त्वं स्नेहं कुरु, कथम्भूतस्त्वं विक्लवो विह्वलः । हे हर ! अद्याहं कालीं
हन्मि व्यापादयामि अतस्त्वं शरीरार्द्धलब्ध्या सकलः सम्पूर्णो भव, अस्यां शरीरार्द्ध-
हारिण्यां हतायां तव शरीरार्द्धं त्वयि एव च समाविशतु । किंविशिष्टां कालीं
जिह्मां वक्रां, उक्तिलेशोऽपि यस्य किल जिह्मा काली कान्तिर्हन्यते स सकलो
 
----------------------
[^१] ज० का० निर्गता ।
[^२] ज० का०-मृदितस्याद्रिजा; यदृच्छामृदुपदमृदितस्याद्रिजेति अन्यत् पाठान्तरं
काव्यमालाप्रतौ सूचितम् ।