This page has not been fully proofread.

पद्याङ्क २७-२८ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ७१
 
सं० व्या० – २७. प्रास्तामिति ॥ उमा गौरी वो युष्मान् श्रव्यात् रक्षतु, किं
कुर्वती विदग्धं दनुजं निर्दहन्ती रुपा दृष्ट्वा रौद्रदृष्ट्या महिषं सोत्प्रास जल्पन्तं
दलयन्तीत्यर्थः, श्रालापानां पाताः पतनानि चालापपाताः सहोत्प्रासेन उल्लण्ठनेन वर्तन्ते
इति सोत्प्रासाश्च ते ग्रालापाश्च तैरित्येवं सोत्प्रासालापपातः, विदग्धं विचक्षणं
दनुजं तदुच्यते 'प्रास्तां मुग्धेऽर्द्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्या 'दि, प्रास्तां
तिष्ठतु मुग्धे ! अर्द्धचन्द्रः शरविशेषः, छलपक्ष तु अर्द्धचन्द्रः भई नपुंसकमिति
तत्पुरुषसमासः, क्षिप मुञ्च सुरसरितं गङ्गा या कीदृशी सपत्नी भवत्यास्तव इद-
मुक्त भवति, अर्द्धचन्द्रस्तव भत्तु इचूडामणिः, इयं तु भार्या अतः क्षेपणे योग्ये इति,
पाशश्चायुधविशेष: 'ततोऽङ्गश्चादी कत्' पाशकः, पाशको दुंदुभिरुच्यते ततः
शब्दच्छलेनाह अमुनैकेन पाशकेन अलं पर्याप्तं अपरं द्वितीयं पाशकं मुञ्च द्वाभ्यां
पाशकाभ्यां क्रीडेति, गूलमायुधं व्याधिश्च तत्र छलेनाह शूलं प्रागेव पूर्वमेव सम
शिरसि लग्नं, किमिदानीं शूलं क्षिपसि इति भावः कथं शिरःशूलं यत् यस्मात्
स्त्री युद्धयसे, किल पुरुषस्य युद्धेऽधिकारः ॥२७॥
 
"
 
वक्त्राणां विक्लवः किं वहसि बत रुचं स्कन्द षण्णां विषण्णा-
मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीराईलब्ध्या ।
जिह्मां हन्म्यद्य काली मिति सममसुभिः कण्ठतो निःसृता' गी-
र्गीर्वाणारेर्ययेच्छामृदुपददलितस्याद्रिजा`सावताद्वः ॥२८॥
 
कुं० वृ० - सा अद्रिजा पार्व्वती वो युष्मान् श्रवतात्, सा का यया इच्छा-
मृदुपदर्दालतस्य मदितस्य, गीर्वाणी येषां ते गीर्वाणाः तेषां अरिः तस्य गीर्वाणारे:
कण्ठत: असुभिः समं प्राणैः सह इति गीनिःसृता, इच्छया मृदु अकृताऽभिभारं
यत्पदं तेन दलितः तस्य, इति किं, हे स्कन्द ! बत इति खेदे, षण्णां वक्त्राणां विषण्णां
विच्छायं रुचं कान्ति कि वहसि, मा वह, ते तव अन्याः अपराः कृत्तिकाः षण्मातरः
सन्ति, तासु त्वं स्नेहं कुरु, कथम्भूतस्त्वं विक्लवो विह्वलः । हे हर ! अद्याहं कालीं
हन्मि व्यापादयामि अतस्त्वं शरीरार्द्धलब्ध्या सकलः सम्पूर्णो भव, अस्यां शरीरार्द्ध-
हारिण्यां हतायां तव शरीराद्धं त्वयि एव च समाविशतु । किविशिष्टां कालीं
जिह्यां वक्रां, उक्तिलेशोऽपि यस्य किल जिह्या काली कान्तिर्हन्यते स सकलो
 
T
 
१. ज० का० निर्गता ।
 
२. ज०
 
का ०-मृदितस्याद्रिजा; यदुच्छामृदुपदमृदितस्याद्विजेति अन्यत् पाठान्तरं
काव्यमालाप्रती सूचितम् ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy