This page has been fully proofread once and needs a second look.

गता देवीति भावः, शमिते शात्रवे क्लान्तेव ग्लानिं (प्राप्तेव), किं कृत्वा लज्ज-
योपसृत्य पत्युर्देहार्द्धलीना, किंभूतस्य पत्युः ततभुजयुगलस्य ततं भुजयुगलमस्येति
विग्रहः, किमर्थं प्रसारितभुजयुगलम्य अलमालम्बनार्थं ग्रहणाय ॥२६॥
 
आस्तां मुग्धेऽर्द्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः
क्रीडा द्वाभ्यां विमुञ्चापरमलममुनैकेन मे पाशकेन ।
शूलं प्रागेव लग्नं शिरसि यदबला युध्यते[^१]ऽव्याद्विदग्धं
सोत्प्रासालापपातैरिति दितिजमुमा[^२] निर्दहन्ती दृशा वः ॥२७॥
 
कुं० वृ०--उमा पार्वती वो युष्मान् अव्यात् पातु, किं कुर्वती दृशा दृष्ट्या
दितिजं महिषं निर्दहन्ती ज्वलयन्ती, किंविशिष्टं इति सोत्प्रासालापपातात्
विदग्धं चतुरं धूर्त्तं, आलपनानि आलापास्तेषां पाताः पतनानि सह उत्प्रासेन
उल्लण्ठनेन वर्तन्त इति सोत्प्रासाश्चते आलापपाताश्च सोत्प्रासालापपाताः तैः
अतिचारसोत्साहवचनैः, इतीति किं, हे मुग्धे, अर्धचन्द्रं बाणविशेषं क्षिपन्तीं देवीं
शब्दच्छलेनाह, हे मुग्धे ! अर्धचन्द्र आस्तां अर्धचन्द्राख्यो बाणस्तिष्ठतु मा क्षैप्सीः
यतस्त्वद्भर्तुरलङ्कारस्तव भूषा(क)रोऽयं अर्द्धचन्द्रो हरशिरोभूषायामपि अस-
मञ्जसमेतत् न क्षिप्यते, ननु तर्हि किं क्षिपामीति देव्युक्तौ महिष आह, सुरसरितं
सुरनदीं त्वद्भर्तुः शिरसि वर्तमानां गङ्गां क्षिप, कथं या भवत्याः सपत्नी द्वेषिणी
तां, 'कर्म्म तत्क्रियते यत् आत्मनः सुखाय भवति', किमुक्तं भवति, तवार्द्धचन्द्रेण
मे रोमापि न छिद्यते किमर्थं प्रयस्यते इति व्यज्यते । अत्र च कर्त्तव्याकर्त्तव्यविवेक-
विरहान्मुग्धे इत्युक्तं; एवं अर्धचन्द्रं निवार्य पाशं क्षिपन्तीं पुनराह, तत्र पाशशब्दं
'प्राणिबन्धनविशेषे क्रीडासाधने पाशके च' वर्तमानं दृष्ट्वा वलयति; हे मुग्धे !
पाशोऽप्यास्तां अमुना एकेन पाशकेन मे अलं मह्यं पूर्यतां, ह्रस्वः पाशः पाशकः,
अपरं अपि द्वितीयं अपि पातः (पातय) क्षिप कथं यतः क्रीडा खलु द्वाभ्यां
पाशाभ्यां भवति, एतदुक्तं भवति अकिञ्चित्करत्वात् मयि पाशः क्षिप्तः प्रत्युत
क्रीडां एव द्योतयति न तु युद्धं, तर्हि(26a] शूलां(लं) क्षिपामि इति देव्युक्तौ महिषः
पुनराह, हे मुग्धे ! शूलं मे शिरसि प्रागेव लग्नं यत् मया सकलसुरकुलखलीकार-
खर्जूलभुजयुगेन सह अबला स्त्री युध्यते, सूरस्य शिरसि अतःपरमपि किं शूलं
किं दुःखम्, अत्र छलं, शूलं प्रहरणं तिष्ठतु, शूलं खड्गे प्रहरणे च उभयवृत्ति-
त्वात् छलास्पदम् ॥२७॥
 
------------------------
[^१] ज० युद्य्लसे ।
[‍^२] ज० का० दनुजमुमा ।