Proofing

✦

This page has been fully proofread once and needs a second look.

७० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क २६-२७ व्याख्या
 
गता देवीति भावः, शमिते शात्रवे क्लान्तेव ग्लानिनिं ( प्राप्तेव), किं कृत्वा लज्ज-

योपसृत्य पत्युर्देहार्द्धलीना, किंभूतस्य पत्युः ततभुजयुगलस्य ततं भुजयुगलमस्येति

विग्रहः, किमर्थं प्रसारितभुजयुगलम्य अलमालम्बनार्थं ग्रहणाय ॥२६॥

 
आस्तां मुग्धेऽर्द्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः

क्रीडा द्वाभ्यां विमुञ्चापरमलममुनैकेन मे पाशकेन ।

शूलं प्रागेव लग्नं शिरसि यदबला युध्यते[^१]ऽव्याद्विदग्धं
 

सोत्प्रासालापपातैरिति दितिजमुमा[^२] निर्दहन्ती दृशा वः ॥२७॥
 

 
कुं० वृ० - --उमा पार्वती वो युष्मान् अव्यात् पातु, किं कुर्वती दृशा दृष्ट्या

दितिजं महिषं निर्दहन्ती ज्वलयन्ती, किंविशिष्टं इति सोत्प्रासालापपातात्

विदग्धं चतुरं धूर्त्तं, आलपनानि आलापास्तेषां पाता:ताः पतनानि सह उत्प्रासेन

उल्लण्ठनेन वर्तन्त इति सोत्प्रासाश्चते आलापपाताश्च सोत्प्रासालापपाताः तैः

अतिचारसोत्साहवचनैः, इतीति किकिं, हे मुग्धे, अर्धचन्द्रं बाणविशेषं क्षिपन्तीं देवीं

शब्दच्छलेनाह, हे मुग्धे ! अर्धचन्द्र प्राआस्तां अर्धचन्द्राख्यो वाबाणस्तिष्ठतु मा क्षैप्सी:
सीः
यतस्त्वद्भर्तुङ्कुरलङ्कारस्तव भूषा (क) रोऽयं प्रअर्द्धचन्द्रो हरशिरोभूषायामपि अस
-
मञ्जसमेतत् न क्षिप्यते, ननु तर्हि किकिं क्षिपामीति देव्युक्तौ महिष ग्रआह, सुरसरितं

सुरनदीं त्वद्भर्तुः शिरसि वर्तमानां गङ्गां क्षिप, कथं या भवत्याः सपत्नी द्वेषिणी

तां, 'कर्म्म तत्क्रियते यत् आत्मनः सुखाय भवति', किमुक्ततं भवति, तवार्द्धचन्द्रेण

मे रोमापि न छिंछिद्यते किमर्थं प्रयस्यते इति व्यज्यते । अत्र च कर्त्तव्याकर्त्तव्यविवेक-

विरहान्मुग्धे इत्युक्ततं; एवं अर्धचन्द्रं निवार्य पाशं क्षिपन्तीतीं पुनराह, तत्र पाशशब्दं

'प्राणिबन्धनविशेषे क्रीडासाधने पाशके च' वर्तमानं दृष्ट्वा वलयति; हे मुग्धे !

पाशोऽप्यास्तां अमुना एकेन पाशकेन मे अलं मह्यं पूर्यतां, ह्रस्वः पाशः पाशकः,

अ
परंप अपि द्वितीयं अपि पात:तः (पातय) क्षिप कथं यतः क्रीडा खलु द्वाभ्यां

पाशाभ्यां भवति, एतदुक्ततं भवति प्रअकिञ्चित्करत्वात् मयि पाशः क्षिप्तः प्रत्युत

क्रीडां एव द्योतयति न तु युद्धं, तर्हि (26a] शूलां (लं) क्षिपामि इति देव्युक्तीतौ महिषः

पुनराह, हे मुग्धे ! शूलं मे शिरसि प्रागेव लग्नं यत् मया सकलसुरकुलखलीकार-

खर्जू लभुजयुगेन सह अबला स्त्री युध्यते, सूरस्य शिरसि अतःपरमपि किकिं शूलं
कि

किं
दुःखम्, अत्र छलं, शूलं प्रहरणं तिष्ठतु, शूलं खड्गे प्रहरणे च उभयवृत्ति-

त्वात् छलास्पदम् ॥२७॥
 
T
 

 
------------------------
[^
१.] ज० युद्धयय्लसे ।

[‍^
२.] ज० का० दनुजमुमा ।
 
"
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy