This page has not been fully proofread.

पद्याङ्क २६ व्याख्या
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ६९
 
वो युष्माकं कृच्छ्र विहन्तु कष्टं विनाशयतु । कथंभूता सती, तूर्णं उपेत्य पत्युर्दे-
हार्द्ध शम्भोः शरीरार्द्धे गेहबुद्धि गृहबुद्धि प्रतिविहितवती अवेक्षन्ती साक्षात्कृतवती,
प्रतिरत्र साक्षादर्थे निपातानां अनेकार्थत्वात्, गेहे बुद्धिः गेहबुद्धिः गृहविषये या
बुद्धि तां देहार्द्धे महेश्वरशरीरे साक्षात्कृतवती श्रमवशात् अभेदबुद्धि तत्र परि-
कल्पितवती, इदमेव मे गृहं इति, अत्रैव विश्राम्यामि किमुक्त भवति, महिष-
वधार्थं महेशशरीरात् विनिर्गत्य तं हत्वा पुनः तत्रैव निवेष्टुकामा, किंभूता इव
क्लान्ता इव, महिषं हत्वा श्रमार्ता इव, अन्योऽपि यः श्रमार्तो भवति स क्वचिद्वि-
श्रान्ति करोत्येव, कि कृत्वा, श्रालीय तिरोभूत्वा, कथा लज्जया, एतदुक्तं भवति,
जनसन्निधौ प्रत्युत्त (25b) राश्लेषाल्लज्जां प्राप्य शरीरार्द्धमिषेण तत्र लीना बभू-
वेत्यर्थः । किंभूतस्य पत्युः, ततभुजयुगलस्य प्रसारितभुजद्वयस्य, कथं अलं प्रतिशयेम
किंविशिष्टा, प्रनिच्छयैव तदा वाञ्छां विना एवं प्रापतितघनत राश्लेपसौख्या
घनतरश्चासावाश्लेषश्च घनतराश्लेषः तस्मात्सौख्यं घनतराइलेपसौख्यं आपतितं
जातं घनतराश्लेषसौख्यं यस्याः सा तथा, अयमभिसन्धि: महिषवधक्लान्तिवशात्
आश्रयं इच्छुराश्रयेच्छां विनापि क्षेमागमनप्रश्नव्याजेन परिरब्बुकामस्य पत्युः
भुजयुगमध्यान्तर्वतितया सञ्जात दृढतराश्लेष सौख्येत्यर्थः; केषु सत्सु तुराषाट्प्रभृतिषु
इन्द्रादिदेवेषु स्त्नोत्रकृत्सु स्तुतिं कुर्वत्सु सत्सु; तुरं वेगं सहते तुरापाट्, कथं तूर्णं
वेगेन, कस्मात्तोषात् तुष्टे:, वव सति शात्रवे शत्री महिषे शमिते व्यापादिते सति,
शत्रुरेव शात्रवः, प्रज्ञादित्वादण् । अथ पत्युः सन्निधौ देवेषु स्तुवत्सु लज्जावशात्
पत्युर्देहार्द्ध लीनेति योजनीयम् ॥२६॥
 
सं० व्या० - २६. तूणं तोषादिति ॥ काली भगवती कृच्छ्र कष्टं वो युष्माकं
विहन्तु ध्वंसयतु । आपतितघनतराश्लेषसौख्या घनतरश्चासावाश्लेषश्च घनतरा-
श्लेषो गाढतरालिङ्गनं तस्माद्यत्सौख्यं घनत राश्लेषसौख्यं अनिच्छयै वा कामतयैव
आपतितमागतं घनतराश्लेषसौख्यं यस्याः सा तथोक्ता प्रापतितघनत राश्लेषसौख्या,
किं कृत्वा आलीय आलिङ्गनं कृत्वा, कया लज्जया, क्व देहार्द्धे शरीरार्द्धे, कस्य पत्युः
शङ्करस्य, किंविशिष्टा देवी, गेहस्य बुद्धिः गेहबुद्धिः तां गेहबुद्धि प्रतिविहितवती
अयमर्थः । महिषव्यापादनाय पत्युः शरीरात् वियुज्य पुनरपि कृतकार्या स्वगेहबुद्धि
कृत्त्वा भर्तु : शरीरे लज्जयानिच्छयैवापतितघनतराश्लेषसौख्या कालीति, केन
कारणेन लज्जते इत्याह, 'तूर्णं तोषात्तुराषाप्रभृतिषु शमिते शात्रवे स्तोत्रकृत्सु' इति
शत्रु रेव शात्रवः, प्रज्ञा दित्त्वादण्, तस्मिन् शात्रवे मंहिषाख्ये शमिते व्यापादिते
सति यस्तोषस्तस्मात् तूर्णं क्षिप्रं तुराषाट्प्रभृतिषु शऋादिषु स्तोत्रकृत्सु स्तुति-
कारकेषु सत्सु, महान्तो हि प्रत्यक्षप्रशंसया सुतरां लज्जन्ते इति देहार्द्धेन सह्रैकतां
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy