This page has been fully proofread once and needs a second look.

पद्याङ्क २४-२५ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ६७
 
सं० व्या०--२४. शार्ङ्गिन् वारबाणमिति ॥ उमा गौरी वो युष्मान् त्रायतां रक्षतु,

किं कृत्वा इत्येवं उत्प्रास्य उपहस्य, पुरस्तादग्रतः शार्ङ्गि-प्रभृतीन् अनु पश्चात्

मृद्नती क्षोदयन्ती, कां दनुजतनुं दनुजो महिषस्तस्य तनुंनु शरीरं कथमुत्प्रास्येत्याह,

शार्ङ्गिन् बाणं विमुञ्चेत्यादि, शार्ङ्गं धनुरस्यास्तीति श।ङ्गर्गीस् श्रीविष्णुस्तस्य सम्वोबोधनं,
है

हे
शार्ङ्गिन् ! वाबाणं शरं विमुञ्च क्षिप, भ्रमसि भ्रान्तितिं करोषि तच्चायुक्तं, बलिरसौ

संयतो बद्धः केन बाणेन अपि तु न केनापि इति असुर:रः छलितः, गां त्रायन्तीति

गोत्राः पर्वतास्तेषामरिरिन्द्रस्तस्यामन्त्रणे गोत्रारे ! हन्मि व्यापादयामि ग्रहं ते तव

रिपुं प्रसुरश्चासौ रिपुश्चासुररिपुः तु शब्दस्तस्मिन् महे महदुत्सवे अस्मिन् काले

महिषो हन्यते अज इव यथा अजश्छाग:गः, हे दैत्या दितिजा द्राक् क्षिप्रं व्यापाद्यतां

मार्यतां मया महिष इति ॥ २४ ॥
 

 
स्पर्द्धावर्द्धित विन्ध्यदुर्द्धरभर'[^१] व्यस्ता द्विहायस्तलं
 

हस्तादुत्पतिता प्रसाधयतु[^२] वः कृत्यानि कात्यायनी ।

यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी-

र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥ २५॥
 

 
कुं० वृ०--इदानीं महिषवधानन्तरं शऋाद्या :क्राद्याः पूर्व्वावदातचरितं:तैः कंसवधा-
'

दिभिः परमेश्वर्यास्सर्व्वंशक्त्ये कात्मकत्वख्यापनाय च स्तुतिमारेभिरे कत्तुर्त्तुं ; ननु

महिषः पूर्वं व्यापादितः कंसस्तु पश्चात्, तत्कथं कंसवधस्य पूर्व्वभावित्वं व्याप्यते ?

उच्यते, अत्र महिषकंसादिशब्दानां प्रवाहान्त:तःपातित्वेन नित्यत्वमाश्रयणीयं न

पौर्वापर्यक्रमः, कदाचित्कल्पभेदेन पूर्वं कंसवधः पश्चान्महिषवधः, कदाचिद्वैप-

रीत्येनेति सर्व्वमवदातं, तदयं कविप्रेरितकर्तृ भणितत्वेन देवतास्तुतिश्लोकः,

तदुक्तं अग्रेतने पद्ये 'तूर्णं तोषात्तुराषाट्-प्रभृतिषु स्तोत्रकृत्स्विति' । तदयं व्याक्रियते,

कात्यायनी दाक्षायणी वो युष्माकं कृत्यानि कार्याणि प्रसाधयतु निष्पादयतु,

काऽऽसौ[25a] यां कंसो गुरुत्वात् स्कन्धेन कृत्वा वध्योद्देशं वध्यप्रदेशं अनयत्, वधं
श्रहं

अर्ह
तीति वध्यः तस्य प्रदेशो वध्योद्देशः । कां इव शूलीं इव, कृतमहादोषप्राणिनो

वधार्थं तीक्ष्णाग्रकीलां इव । किंभूतां शूलीं, देवदारुघटितां देवदारुणा निर्मिता

देवदारुघटता तां अतिगुर्व्वीमित्यर्थः; अथ देव्या गुरुत्वद्योतनार्थं देवदारूपमा ।

किमर्थं अनयत्, अशेषबान्धवकुलध्वंसाय अशेषाश्च ते बान्धवाश्च अशेषबान्धवा-

 
-----------------------------
[‍^
.] ज० का० दुर्भरभर० ।
 

[‍^
.] ज० हस्तादुत्पतिताथ साधयतु; का० प्रसादयतु
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy