2023-03-13 13:35:03 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क २४-२५ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
[ ६७
सं०व्या० – २४. शाङ्गिन् वारणमिति ॥ उमा गौरी वो युष्मान् त्रायतां रक्षतु,
किं कृत्वा इत्येवं उत्प्रास्य उपहस्य, पुरस्तादग्रतः शाङ्गि-प्रभृतीन् अनु पश्चात्
मृद्नती क्षोदयन्ती, कां दनुजतनुं दनुजो महिषस्तस्य तनुं शरीरं कथमुत्प्रास्येत्याह,
शाङ्गिन् बाणं विमुञ्चेत्यादि, शाङ्गं धनुरस्यास्तीति श।ङ्ग श्रीविष्णुस्तस्य सम्वोधनं,
है शाङ्गिन् ! वाणं शरं विमुञ्च क्षिप, भ्रमसि भ्रान्ति करोषि तच्चायुक्त, बलिरसौ
संयतो बद्धः केन बाणेन अपि तु न केनापि इति असुर: छलितः, गां त्रायन्तीति
गोत्राः पर्वतास्तेषामरिरिन्द्रस्तस्यामन्त्रणे गोत्रारे ! हन्मि व्यापादयामि ग्रहं ते तव
रिपुं प्रसुरश्चासौ रिपुश्चासुररिपुः तु शब्दस्तस्मिन् महे महदुत्सवे अस्मिन् काले
महिषो हन्यते अज इव यथा अजश्छाग:, हे दैत्या दितिजा द्राक् क्षिप्रं व्यापाद्यतां
मार्यतां मया महिष इति ॥ २४ ॥
स्पर्द्धावर्द्धित विन्ध्यदुर्द्धरभर' व्यस्ता द्विहायस्तलं
हस्तादुत्पतिता प्रसाधयतु वः कृत्यानि कात्यायनी ।
यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी-
र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥ २५॥
कुं० वृ० – इदानीं महिषवधानन्तरं शऋाद्या : पूर्व्वावदातचरितं: कंसवधा-
'दिभिः परमेश्वर्यास्सव्वंशक्त्ये कात्मकत्वख्यापनाय च स्तुतिमारेभिरे कत्तु; ननु
महिषः पूर्वं व्यापादितः कंसस्तु पश्चात्, तत्कथं कंसवधस्य पूर्व्वभावित्वं व्याप्यते ?
उच्यते, अत्र महिषकंसादिशब्दानां प्रवाहान्त:पातित्वेन नित्यत्वमाश्रयणीयं न
पौर्वापर्यक्रमः, कदाचित्कल्पभेदेन पूर्वं कंसवधः पश्चान्महिषवधः, कदाचिद्वैप-
रीत्येनेति सर्व्वमवदातं, तदयं कविप्रेरितकर्तृ भणितत्वेन देवतास्तुतिश्लोकः,
तदुक्त अग्रेतने पद्ये 'तूर्णं तोषात्तुराषाट्-प्रभृतिषु स्तोत्रकृत्स्विति' । तदयं व्याक्रियते,
कात्यायनी दाक्षायणी वो युष्माकं कृत्यानि कार्याणि प्रसाधयतु निष्पादयतु,
काऽऽसौ[25a] यां कंसो गुरुत्वात् स्कन्धेन कृत्वा वध्योद्देशं वध्यप्रदेशं अनयत्, वधं
श्रहंतीति वध्यः तस्य प्रदेशो वध्योद्देशः । कां इव शूलीं इव, कृतमहादोषप्राणिनो
वधार्थं तीक्ष्णाग्रकीलां इव । किंभूतां शूलीं, देवदारुघटितां देवदारुणा निर्मिता
देवदारुघटता तां अतिगुवमित्यर्थः; अथ देव्या गुरुत्वद्योतनार्थं देवदारूपमा ।
किमर्थं अनयत्, अशेषबान्धवकुलध्वंसाय अशेषाश्च ते बान्धवाश्च अशेषबान्धवा-
१. ज० का० दुर्भरभर० ।
२. ज० हस्तादुत्पतिताथ साधयतु; का० प्रसादयतु
T
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy