This page has been fully proofread once and needs a second look.

शार्ङ्गिन् बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो
गोत्रारे ! हन्म्यहन्ते रिपुममररिपुः शक्र गोत्रस्य शत्रुः[^१] ।
दैत्यो व्यापाद्यतां द्राक् इव महिषो हन्यते मन्महेऽद्ये-[^२]
त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्नती त्रायतां वः ॥ २४॥
 
कुं० वृ०--उमा गौरी वस्त्रायतां रक्षतु, किं कुर्वती अनु पश्चात् दनुजतनुं
महिषासुरशरीरं[24b] मृद्नती चूर्णयन्ती, किं कृत्वा, पुरस्तादादौ इत्येवं प्रकारेण
देवानुत्प्रास्य प्रोत्सह्य, इतीति किं, हे शार्ङ्गिन् ! विष्णो ! बाणं विमुञ्च
बाणस्तिष्ठतु, किं बाणं मोक्तुमिच्छसि कुत एतदुच्यते, यस्मात्कारणात्त्वं भ्रमसि
भ्रान्ति इतोऽसि, बद्धः खलु मुच्यते ननु, अतो यतस्त्वया संयतः स बलिः, बले-
रवेदं युक्तं; अयं तु बाण: बाणाऽसुर: बाणो दैत्यः शिरश्च बाणासुर: केनापि
न बद्धः, अतो बाणमोचनप्रयासाय यत् यतसे सा भ्रान्ति:; अत्र प्रस्तुतं, हे
शार्ङ्गिन् ! बाण आस्तां, त्वं भ्रमसि भ्रान्तोऽसि यतोऽसौ बलिर्बलवान् न तव बाणेन
वध्य इत्यर्थः; त्वया केन हेतुना धनुषि बाण: संयतो नियमित: आरोपित इति
यावत् । अपि च, हे गोत्रारे ! इन्द्र ! गोत्राणां पर्व्वतानां अरिः गोत्रारिः तस्य
संबोधनं, अहं ते तव रिपुं शत्रुं हन्मि व्यापादयामि; गोत्रशत्रुं हन्तुं उद्यतोऽय-
मिति कृत्वा त्वं भयं मा कुरु । तु पुनः एष गोत्रस्य शत्रुः, अमररिपुर्देववैरी
तवेन्द्रसंज्ञा, एष न केवलं अमररिपुः यावता तेषां कुलस्यापि वैरीति, गोत्रशत्रु-
हनने आत्मनामभ्रान्त्या भयं मा कुरु । अत्र गोत्र-शब्देन पर्व्वतः, गोत्रं कुलं
लभ्यते, अहं ते रिपुं हन्मि न त्वां इति वाक्यार्थः । अथ हे गोत्रारे ! स्वकीय-
गोत्रशत्रो ! इत्युपहासार्थः । अन्यच्च, तर्हि शार्ङ्गि-इन्द्राभ्यां किंकर्त्तव्यमित्यपेक्षाया-
माह, भवद्भ्यां द्राक् तूर्णं अन्योऽपि यः कश्चन दैत्योऽत्र तिष्ठति स व्यापा-
द्यतां, क इव अज इव छाग इव, दैत्य: छागश्चेति जातौ एकवचनं, अद्य महिषो
हन्यते; क्व मन्महे मदीयमहोत्सवे, मन्महे खलु महिष अजाश्च हन्यन्ते इति
प्रचारः; हे देवा ! वयं इति मन्महे जानीमहे अद्य महिषो हन्यते तर्हि अन्योऽपि
दैत्यो व्यापाद्यतां, कश्चनेतो जीवन् मा यातु, कस्मिन् यथा मन्महे महिष
अजाश्च व्यापाद्यन्ते ॥२४॥
 
-----------------------------
[^१] का० त्वेष गोत्रस्य शत्रुः । ज० रिपुमसुररिपुस्त्वेष गोत्रस्य शत्रुः ।
[^२] ज० मन्महे स्वे ।