2023-03-13 13:35:03 by ambuda-bot
This page has not been fully proofread.
T
महाकविबाण-विरचितं चण्डीशतकम्
शार्ङ्गिन् बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो
गोत्रारे ! हन्म्यहन्ते रिपुममररिपुः शक गोत्रस्य शत्रुः ।
दैत्यो व्यापाद्यतां द्राक् इव महिषो हन्यते मन्महेऽद्य ..
२
त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्मती त्रायतां वः ॥ २४॥
[ पद्याङ्क २४ व्याख्या
G
कुं० वृ० – उमा गौरी वस्त्रायतां रक्षतु, किं कुर्वती अनु पश्चात् दनुजतनु
महिषासुरशरीरं[24b] मृद्द्दती चूर्णयन्ती, किं कृत्वा, पुरस्तादादी इत्येवं प्रकारेण
देवानुत्प्रास्य प्रोत्सह्य, इतीति कि, हे शाङ्गिन् ! विष्णो ! बाणं विमुञ्च
बाणस्तिष्ठतु, कि बाणं मोक्त मिच्छसि कुत एतदुच्यते, यस्मात्कारणात्वं भ्रमसि
भ्रान्ति इतोऽसि, बद्धः खलु मुच्यते ननु, अतो यतस्त्वया संयतः स बलिः, बले-
रवेदं युक्तं; अयं तु बाण: बाणासुर: बाणो दैत्यः शिरश्च बाणासुर: केनापि
न बद्धः, तो बाणमोचनप्रयासाय यत् यतसे सा भ्रान्ति: ; अत्र प्रस्तुतं, हे
शाङ्गिन् ! बाण आस्तां, त्वं भ्रमसि भ्रान्तोऽसि यतोऽसौ बलिर्बलवान् न तव बाणेन
वध्य इत्यर्थः; त्वया केन हेतुना धनुषि बाण: संयतो नियमित: आरोपित इति
यावत् । अपि च, हे गोत्रारे ! इन्द्र ! गोत्राणां पर्व्वतानां अरिः गोत्रारिः तस्य
संबोधनं, ग्रहं ते तव रिपुं शत्रु हन्मि व्यापादयामि; गोत्रशत्रु हन्तु उद्यतोऽय-
मिति कृत्वा त्वं भयं मा कुरु । तु पुनः एष गोत्रस्य शत्रुः अमररिपुर्देववैरी
तवेन्द्रसंज्ञा, एष न केवलं अमररिपुः यावता तेषां कुलस्यापि वैरीति, गोत्रशत्रु-
हनने प्रात्मनामभ्रान्त्या भयं मा कुरु । अत्र गोत्र - शब्देन पर्व्वतः, गोत्रं
कुलं
लभ्यते, अहं ते रिपु हन्मि न त्वां इति वाक्यार्थः । अथ हे गोत्रारे ! स्वकीय-
गोत्रशत्रो ! इत्युपहासार्थ: । अन्यच्च, तर्हि शाङ्गि-इन्द्राभ्यां किकर्त्तव्यमित्यपेक्षाया-
माह, भवद्भ्यां द्राक् तूर्णं अन्योऽपि यः कश्चन दैत्योऽत्र तिष्ठति स व्यापा-
द्यतां, क इव श्रज इव छाग इव, दैत्य: छागश्चेति जाती एकवचनं, प्रद्य महिषो
हन्यते; क्व मन्महे मदीयमहोत्सवे, मन्महे खलु महिष प्रजाश्च हन्यन्ते इति
प्रचारः; हे देवा ! वयं इति मन्महे जानीमहे अद्य महिषो हन्यते तहि अन्योऽपि
दैत्यो व्यापाद्यतां, कश्चनेतो जीवन् मा यातु, कस्मिन् यथा मन्महे महिष
प्रजाश्च व्यापाद्यन्ते ॥२४॥
१. का० त्वेष गोत्रस्य शत्रुः । ज० रिपुमसुररिपुस्त्वेष गोत्रस्य शत्रुः ।
२. ज० मन्महे स्वे ।
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy