2023-03-13 13:35:03 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क २३ व्याख्या ]
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतस्
तव शूलं मम तूलं, नु उत्प्रेक्षा, वा तूलमिंव नु, तूलं पृथक्कृतबीजकापससंज्ञा
तदिव लगति, अथ नु शब्द एवकारार्थे तूलमेव, अकिञ्चित्करत्त्वात् । अन्यच्च, गाढं
प्रहर सबलं प्रहर यतस्त्वं हरोऽसि । अन्यच्च, हे हृषीकेश ! (हृषीका) योगनिद्रा तस्या
ईश ! ते तव चक्रेरण किं मे केशोऽपि वक्रोऽकारि, अपि तु न, यतो निद्रालुना मुक्त
प्रहरणं मनागपि कि लक्ष्यं भिनत्ति ? अपि तु न, तो मे रोमापि न वक्रीकृतम्।
अपि च, हे त्वाष्ट्रशत्रो ! तव पविर्वत्रो राष्ट्र स्वर्गं न प्रवति न रक्षति, प्रतश्च
इमं कथं दधासि, यत्रामरमुकुटकोटिनिघृष्टचरणसरोरुह त्रिनयन- पद्मनाभ-प्रहरणयो-
रेवंविधा शक्तिस्तत्र त्वदायुधस्य वार्ताऽपि कत्तु न युज्यते, यतस्त्वं त्वाष्ट्रशत्रुः
तद्भ्रान्त्या महिषोपरि वृर्थवागतं त्वया । अपि च, हे केश ! जल-
!
नाथ ! वरुण ! त्वदीयाः पाशा : शत्रुबन्धनरज्जवो ममाव्जनालानि पद्मनालानीव
प्रतिभासन्ते, त्वं सदा जले वससि अतो मद्भयाद्व्यग्रत्त्वेन पाशभ्रान्त्या स्व
निवासतो जलनालानि गृहीत्वा समागतोऽसि ज्ञातं तत् तव पौरुषं, पुन: स्वस्थो
भूत्वा समेहि । किञ्च, हे अनल ! वह्ने ! त्वं भातुं शोभितुं न लभसे शोभां धत्तु
न प्राप्नोषि, यतस्त्वं अनलः न अलं न समर्थः इति उक्तिलेशः, विन्दुच्युतकम् ।
प्रतो मदीयेन तेजसा श्राकान्ततेजस्त्वात् भातुं न समर्थः, सूर्यतेजसाऽस्तमित-
ग्रहतेजोवत् । श्रथ भानुमिति पाठे भानु तेज इति व्याख्येयम् ॥२३॥
"
सं० व्या ० – २३. शूल मिति ॥ सा शिवा गौरी वो युष्माकं शान्त्यै शान्तये प्रस्तु
भवतु, यया शिवया अवधि ह्तो व्यापादितो दिवोकोरिपुः देवशत्रुः महिषः इत्यर्थः,
कि कुर्वन् इत्येवं देवान् हरादीन् आत्तदर्पं गृहीतमदं (यथा स्यात् तथा ) जल्पन अभि-
वदन्; कथं तदुच्यते, शूलं कृत्तं' नु गाढेत्यादि, हे हर ! गाढं दृढं प्रहरणं कृत्तं, कृत्ताद्य-
च्छाल्मलीकृत्तमिव तर्कयामि अत एव गाढं प्रहरेत्यादि उक्तवान्, हृषीकेश !
विष्णो ! कि मे केशोऽपि वक्रश्चक्रेणाकारि कृतः, अपितु न, किमुक्तं भवति,
यो युष्मद्वार्षणः स्तब्धतां गतः केशस्तावन्न छिन्न: वक्रतामपि न गतः, त्वष्टुरपत्यं
त्याष्ट्रो वृत्रस्य शत्रुरिन्द्रः हे त्वाष्ट्रशत्रो ! 'द्यु शब्दं (राष्ट्र) पविर्वधं न हि
स्फुटमवति रक्षति प्रतिकुंव [ण्ठ] त्वात् इति भावः, कं जलं तस्य ईश: स्वामी केशो
वरुणः तस्य सम्बोधने, हे केश ! पाशा: बन्धनानि अब्जनालानि कमलनालानां
सदृशाः तस्मात् पाशानपि क्षिप्प मां प्रति प्रेषय, अनल ! वह्ने ! भातु शोभितु
न लभसे, अस्मत्प्रभया हतस्त्वमित्यभिप्रायः ॥ २३ ॥
[ ६५
१. ज० प्रती मूलश्लोके 'कृलं' इति पाठः केनापि संशोध्य 'तूलं' इति कृतः, व्याख्यायां
अपि 'कृलं' इत्येव व्याख्यातमस्ति; किन्तु 'कृलं'-ग्रहणे छन्दोभङ्गो भवति ततः 'कृत्तं' इति
पाठ: स्यात् । 'कृत्तं दातं दितं छित्तमित्यमरः'
T
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy