Proofing

✦

This page has been fully proofread once and needs a second look.

६४ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क २२-२३ व्याख्या
 
प्रदक्षिणां कत्तुर्त्तुं चरणे वलयितवपुषा शेषेण प्राआश्लिष्टश्चरणश्चन्द्रकान्तरचितनूपुर-

शोभां बभार इत्यर्थः ॥२२॥
 

 
सं० व्या०
 
-
 
-
--२२. देयाविदिति ॥ भद्रकाल्या:याः देव्याः सम्बन्धी पादोऽड़्घ्रिर्वो

युष्मभ्यं वाञ्छितानीप्सितानि देयात् ददातु, पातालस्य कुक्षि: पातालकुक्षि: तां

पातालकुक्षिषिं यो नीतः प्रापितः प्रअर्थात् देव्या भद्रकाल्या अनन्यस्यातत्वात् ( ? ) कस्मान्नीत

छलमयमहिषोत्पेषदोषानुषङ्गात् छलमयश्चासौ महिषश्च्छलमयमहिषः कृतकमहिष

इत्यर्थः, छलमयमहिषस्योत्पेष उत्पेषणं स एव दोषवैगुण्यं तस्यानुषङ्गात् पाताल-

कुक्षिषिं योऽङ ङ्घ्रिनर्नीतः इति इदमुक्ततं भवति । यदि पादं नोत्पिण्ष्येत तत्पातालं न

यास्यतीति । किंभूतः पादः कृतपरमभयः कृतं परमभयं सामर्थ्यात् नागानां येन

स तथोक्तः, पुनरपि किंविशिष्टः चरणः इन्दुकान्तोपलरचितमहानूपुराभोग-

लक्ष्मी:मीः, नूपुरस्य आभोगो दीर्घत्वपृथुलक्षणस्तस्य लक्ष्म्याः श्रियः शोभा:भाः इति

यावत्, इन्दोः कान्ता इन्दुकान्तास्ते च ते उपलाश्च ते रचिताः कृताः नूपुराभोग-

लक्ष्म्यो यस्मिन् पादे <flag>रा</flag> तथोक्तः । लक्ष्मीशब्दोऽत्रान्यपदार्थबहुवचनान्त:तः समासःतत्
तत्
'उर: प्रभृतिषु एकवचनात्' न पाठात् कः प्रत्ययोऽनुभूतः, यतः चन्द्रकान्तमणि-

नूपुरावृतो देवीपादः श्रअत एवमुत्प्रेक्षितः कविना । विद्यमानो मुहूर्तशेपेषेण वेति,

मुहूर्तं स्तोककालांशेनैव पन्नगपतिनैव वन्द्यमानः स्तूयमानः, किंविशिष्टेन शेषेण

प्रादक्षिण्यकाङ्क्षावलयितवपुषा प्रदक्षिणस्य भावः प्रादक्षिण्यं तस्य काङ्क्षा

समीहितं तया वलयितं वलयाकारं कृतं वपुः शरीरं येन तथाभूतेन शेषेण

इव, उत्प्रेक्षायां इव ॥२२॥
 
T
 

 
शूलं तूलं नु गाढं प्रहर हर हृषीकेश ! केशोऽपि वक्र-

श्चक क्रेणाकारि किं ते'[^१] पविरवति न ते त्वाष्ट्रशत्रो द्यु राष्ट्रम्
।
पाशा: केशाब्जनालान्यनल न लभसे भातुमित्तात्तदप
 
र्प्पो[^२]
जल्पन देवान् दिवौकोरिपुरवधि यया सा तु शान्त्यै शिवा वः ॥ २३॥
 

 
कुं०वृ० - --अस्तु भवतु, का सा शिवा गौरी किमर्थं शान्त्यै सर्व्वदुरितोपशमनाय,

केषां वो युष्माकं, सा का यया दिवोवौकोरिपुर्महिषोऽवधि हतः, दिवि स्वर्गे ओको

गृहं येषां ते दिवौकसस्तेषां रिपुः, किंभूतः आत्तदर्प्रात्तदर्पः गृहीतगर्व्वः, किं कुर्व्वन्

इत्येवं जल्पन् कथयन्, कान् देवान्, इतीति किकिं, तदाह, हे हर ! नु इति वितर्के
 

 
-----------------------
[^
१.] ज० का० मे ।
 

[^
२०] ज० का० भानुमित्यात्तदर्प; भानुमिति पाठोऽपि प्रतीतौ व्याख्यातः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy