2023-03-16 09:33:12 by manu_css
This page has been fully proofread once and needs a second look.
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
न्नीतः पातालकुक्षिं[^२] कृतपरमभरो भद्रकाल्याः स पादः ।
यः प्राग्दाक्षिण्यकाङ्क्षा
२
शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः॥२२॥
कुं० वृ०
रसोत्कर्ष
केभ्यः वो युष्मभ्य, यः कीदृशः नीतः प्रापितः, कं पातालकुक्
अर्थात् भद्रकाल्या शिवया, कुतः छलमयमहिषोत्पेषरोषानुषङ्गात्, छलमय-
महिषः छलप्रधानो यो महिषः तस्य उत्पेषः तनुचूर्णनं तत्र यो रोषः तस्याऽनुषङ्गः
प्रसंग: सम्बन्धः तस्मात् । किमुक्
महिष: पुनर्महिषतामापन्नो दुष्टोऽयं निग्राह्य एवायमिति यः परमेश्वर्या रोषो
जीत: तद्वशात्तथोच्चूर्णितो यथा तं संचूर्ण्य पातालं प्रविष्टः, कथंभूतः पादः, कृत-
परमभरः, कृतः परम उत्कृष्टो भरो भारो यस्मिन् स तथा कृतपरमगुरुत्वः । अपि
च, इन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः, इन्दुकान्तश्चन्द्रकान्तो योऽसावुपलो
ग्रावा तेन प्रकृतिभूतेन रचितो यो महानूपुरः अनर्घ्यनूपुरः तस्य य आभोगो
विस्तारस्तस्य लक्ष्मीः शोभा यत्र स इन्दुकान्तोपल
अत्र लक्ष्मीशब्दोऽवयवार्थो बहुवचनान्
न भवति । इदमुत्प्रेक्षाद्वारेण विशेषणं; किं च प्राक् आदौ वंद्यमानो नमस्क्रिय-
माणः, केन विशेषेणेव शेषाभिधेन नागपतिना कियन्तं कालं मुहूर्त्तं क्षणमेकं
यतोऽन्ये बहवो वन्दनार्थिन
दाक्षिण्येनाऽनुकूलतया भक्त्या या आकाङ्क्षा वन्दनेच्छा त
वपुः शरीरं येन तेन तथा विधेन, पूर्व्वस्योत्प्रेक्षागर्भविशेषणस्येदं विशेषणं हेतुः;
शेषो हि भगवान् विमलस्फटिककान्तिः, किमुक्
प्रविष्टमात्रः पूर्व्वं श्रद्धाभरात् शेषेण नमस्कृतः, तदनु अन्येभ्योऽवकाशो दत्तः ।
[ 24a] अथ प्रादाक्षिण्य इति पाठः, प्रदक्षिणस्य भावः प्रादाक्षिण्यं उभयपदवृद्धिः,
तस्य काङ्क्षा वाञ्छा तया वलयितं वलयीकृतं वपुर्येन स तेन एतदुक्तं भवति ।
----------------------
[^१
[^२
[^३
T
[ ६३
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy