2023-03-13 13:35:02 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क २२ व्याख्या ]
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
देयाद्वो वाञ्छितानि च्छलमयम हिषोत्पेषरोषानुषङ्गा-
नीतः पातालकुक्षिं कृतपरमभरो भद्रकाल्याः स पादः ।
यः प्राग्दाक्षिण्यकाङ्क्षा'वलयितवपुषा वन्द्यमानो मुहूर्त्तं
२
शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः॥२२॥
कुं० वृ० – देयात् समर्पयतात्, कोऽसौ स पादः, कस्याः भद्रकाल्याः, अत्र
रसोत्कर्ष द्योतना (थं) भद्रकाल्या: इति पृथक् निर्दिष्टं, कानि वाञ्छितानि अभीष्टानि
केभ्यः वो युष्मभ्य, यः कीदृशः नीतः प्रापितः, कं पातालकुक्षि पातालमध्यं, कथं
अर्थात् भद्रकाल्या शिवया, कुतः छलमयमहिषोत्पेषरोषानुषङ्गात्, छलमय-
महिषः छलप्रधानो यो महिषः तस्य उत्पेषः तनुचूर्णनं तत्र यो रोषः तस्याऽनुषङ्गः
प्रसंग: सम्बन्धः तस्मात् । किमुक्त भवति, छलेन सिंहादिनानारूपाणि कुर्व्वाणो
महिष: पुनर्महिषतामापन्नो दुष्टोऽयं निग्राह्य एवायमिति यः परमेश्वर्या रोषो
जीत: तद्वशात्तथोच्चूर्णितो यथा तं संचूर्ण्य पातालं प्रविष्टः, कथंभूतः पादः, कृत-
परमभरः, कृतः परम उत्कृष्टो भरो भारो यस्मिन् स तथा कृतपरमगुरुत्वः । अपि
च, इन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः, इन्दुकान्तश्चन्द्रकान्तो योऽसावुपलो
ग्रावा तेन प्रकृतिभूतेन रचितो यो महानूपुरः अनर्घ्यनूपुरः तस्य भोगो
विस्तारस्तस्य लक्ष्मीः शोभा यत्र स इन्दुकान्तोपल रचित महानूपुराभोगलक्ष्मीः,
अत्र लक्ष्मीशब्दोऽवयवार्थो बहुवचनान्त:, तेन 'उरःप्रभृतिभ्यः कप्' इति कप्
न भवति । इदमुत्प्रेक्षाद्वारेण विशेषणं; किं च प्राक् आदौ वंद्यमानो नमस्क्रिय-
माणः, केन विशेषेणेव शेषाभिधेन नागपतिना कियन्तं कालं मुहूर्त्तं क्षणमेकं
यतोऽन्ये बहवो वन्दनाथिन स्तिष्ठन्ति; किंभूतेन दाक्षिण्यकाङ्क्षावलयितवपुषा
दाक्षिण्येनानुकूलतया भक्त्या या आकाङ्क्षा वन्दनेच्छा तथा वलयितं पादे वेष्टितं
वपुः शरीरं येन तेन तथा विधेन, पूर्व्वस्योत्प्रेक्षागर्भविशेषणस्येदं विशेषणं हेतुः;
शेषो हि भगवान् विमलस्फटिककान्तिः, किमुक्त भवति महिषं भित्त्वा पातालं
प्रविष्टमात्रः पूर्व्वं श्रद्धाभरात् शेषेण नमस्कृतः, तदनु अन्येभ्योऽवकाशो दत्तः ।
[ 24a] अथ प्रादाक्षिण्य इति पाठः, प्रदक्षिणस्य भावः प्रादाक्षिण्यं उभयपदवृद्धिः,
तस्य काङ्क्षा वाञ्छा तया वलयितं वलयीकृतं वपुर्येन स तेन एतदुक्तं भवति ।
१. ज० दोषाऽनुषङ्ग ।
२. ज० कृतपरमभयो; का० हृतभुवनभयो ।
३. ज० प्रादाक्षिण्यकाङ्क्षा ; का० प्रादक्षिण्यकाङ्क्षा ।
T
[ ६३
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy