This page has not been fully proofread.

६२ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क २१ व्याख्या
 
न विचक्षणपरीक्षाक्षमं ईक्षामहे । तस्याः संसदि पुवत् प्रगल्भतेऽपशब्दापत्तेः
तस्मान्मान्यानां चरित्रस्य प्रविचारिणीयत्वात्, क्वचिदेकान्ते स्त्रियाः पुंवद्भावोऽपि
भविष्यतीत्यनुपरम्यते । अनु च हन्तेयंत् त्यागार्थत्वमुपवर्णित (न) ञः हन्तेः पार-
म्पर्येण प्राणानां त्याग एव पर्यवसानात्, 'ओहाक् त्यागे' इति अनैकार्थत्वं
सुवचं द्रव्येशमभिधाय भङ्गश्लेषोक्त्या चऋिणं स्पृशति । हे चक्रिन् ! त्वं दितिजे
महिषे विचक्रो जातः, चक्र (23b) मस्यातीति चक्री, चक्रित्वं ते प्रकृतिः, विचक्रत्वेन
सा त्वया त्यक्तेति मम दुःखकरं, प्रकृतविकृतिरुत्पातायेति हेतोः । अथ आत्मरक्षा-
परेरण त्वया साधु समाचरितं विचक्रं मां महिषो न प्रहरिष्यतीति चऋपरित्यागः
कृतः । अथ च, हे चक्रिन् त्वं मा भैषी: केवलं त्वमेव विचक्रो न किन्तु दितिजोऽपि
विचक्रो जातः 'चक्रं सैग्यमायुधं च । अथ हे चक्रिन् ! साम्प्रतं दितिजो विचक्रो
विगतसैन्यो जातः, तर्हि विचऋश्चक्रिणि त्वयि न प्रहरिष्यतीति त्वं तस्मान्मा स्म
भैषीः । अथ विगतं चक्रं यस्मात् इति विचक्रः, चक्रिणो मुक्तमपि तस्य न लग्न-
मिति भावः । अतो हे चक्रिन् ! यथागतं गम्यतामिति किमत्र त्वया प्रयोजनम्
॥२१॥छ।
 
T
 
-
 
सं० व्या० – २१. कृत्त्वेदृगिति । व्यापादितो निपातितो अरिया सा व्यापा-
दितारिर्भवानी भवभार्या जयति । किं क्रियमाणा, नीयमाना प्राप्यमाना व्रीडां लज्जां
विजयया देवीसख्या, कि कुर्वत्या विजयया इत्येवं सुरान् इन्द्रादीन् ब्रुवन्त्या अभि-
वादयन्त्या किंविशिष्टान् त्यक्तहेतीन् मुक्तप्रहरणान् क्व दितिजे दैत्ये महिपे इत्यर्थः
त्यक्तायुधानस्मान्नैष महिषः प्रहरिष्यतीति विचार्य देवैर्हेतयस्त्यक्ताः, किल महान्तो
मुक्तायुधेषु न प्रहरन्तीति भावः । कथमुपहासपूर्वं तान् सुरान् ब्रुवन्त्या तदुच्यते,
कृत्त्वेहक्कर्मेत्यादि, न विद्यते प्रशनिर्वत्रं यस्येति सम्बध्यते हे अनशने शक मासून्
विहासी: मा प्राणांस्त्याक्षी: क्व न प्रशनं अनशनं तत्र अनशने इति शब्दच्छ-
लेनोक्तं कि कृत्वा ईदृक्कर्म शत्रु विजणं (नं) हेतित्यागलक्षणं लज्जाजननं त्रपाकरं
कृत्वा विधायेति, श्रर्थेश धनद घनपते ! गदं रोगं जहि शमय, क्व स्थाणुकण्ठे
विषापहारं कुर्व (वि) तीत्यर्थ: अगदस्यायमेवोपयोगः इदमेवौषधप्रयोजनं त्वं तु अगदो
विद्यसे गदायास्त्यागात्, प्रसावपि दैत्यसूदनश्चक्री विष्णुविचको विगतचक्रो जातो
भूत इति देवान् ब्रुवाणया विजयया भगवती व्रीडां नीयमाना जयति इति] सभु-
दायार्थः ॥२१॥
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy