This page has been fully proofread once and needs a second look.

पद्याङ्क २१ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ६१
 
कुं० वृ० - -भवानी भवपत्नी जयति सर्व्वोत्कर्षेण प्रवर्तते, किंभूता व्यापा-

दितारि: व्यापादितो हतोऽरिर्यया सा तथोक्ता । पुन: किंविशिष्टा विजयया

भवानीसख्या व्रीडां लज्जां नीयमाना प्राप्यमाणा । कथंभूतया विजयया, सुसृरान्

इन्द्रादीन् इति वक्ष्यमाणं ब्रुवन्त्या, किंविशिष्टान् सुरान् त्यक्तहेतीन् त्यक्ता प्रस्ता
तय

हेतय आ
युधानि यैस्ते तथा तान् । इतीति किं, हे शक्र ! हे अनशने ! न विद्यते

शनिर्वत्ज्रं यस्य सोऽनशनिः, तस्य सम्बोधनं, हे अनशने ! त्वं असून् प्राणान् न

जहासि न त्यजसि (23a) अत्र नकारः काकूक्तोतौ तदभिद्योतनार्थं कथमित्यध्याह्रियते

कथं न जहासि ? तव प्राणत्यागो युक्तः । किं कृत्वा, ईदृक् अशनित्यागपलायन-

लक्षणं कर्म्म कृत्वा, इन्द्रो वज्री इति असाधारणमुपलक्षणमिन्द्रस्य । यथा चक्
रां
विष्णु: असाधारणे उपलक्षणे गते प्राणा यान्त्येव, अन्योऽपि गर्हितं कर्म्म कृत्वा

अनशने भोजनपरित्यागे प्राणांस्त्यजति । 'शक्लृ 'शक्तौ' इति प्रकृत्यर्थविकारे

शक्रस्य तत् अशक्तसदृशं कर्म्म कृत्वा भोजनपरित्यागेन प्राणपरित्यागो न्याय्यः;

एवं शक्रमुपालभ्य द्रव्येशमुपालब्धुकामा उक्त्यन्तरमारचयति, हे द्रव्येश ! हे

अगद ! न विद्यते गदा यस्य सः अगदः तस्य सम्बोधनं, हे अगद ! अत्र अग (द ) -

स्येति षष्ठचन्तस्याठ्यन्तस्याऽपि अगदशब्दस्य व्याख्यानसौकर्यात् सुखावबोधार्थं अर्थ-

वशाद्विभक्तिपरिणाम इति कृत्वा संक्षिप्तिराक्षिप्यते । हे अगद ! स्थाणुकण्ठे

वर्त्तमानं गदं हरगले वर्तमानं गदं विषस्वरूपं रोगं जहि नाशय, यतोऽगदस्य
श्रो

षधस्य अयमेव उपयोगःग: यत् औषधं रोगहारि भवति, अत्र श्रौषधस्य

अज्ञानिनो नियोगाभावात्, औषधिनोरभेदोपचारवृत्या अगदशब्देन धनदः प्रतीयते,

अथवा मत्वर्थीयोऽत्राकारः, अगदिना इत्यर्थ:थः । अतो हे अगद ! हे द्रव्येश !

स्थाणुस्तव मित्रं स्वामी च अतस्तद्गले गदं जहि, यतस्त्वं द्रव्येशः स तु स्थाणुः,

तिष्ठतीति स्थाणुः, अतस्तव अयं पदोऽपयोग: 'गः ‘समुद्गद्योपनीतेषु साहाय्यायोप-

कल्पते' इति व्यासस्मरणात् । अत्राऽभियुक्ताः केचनागदमिति, गदां स्थाणु
णुं
कण्ठे जहि मुञ्च, तत्र हेतुर्वदति, अन्योऽपि श्रान्तः सन् गदां स्थाणीणौ कीलके

मुञ्चति । गदाशब्दस्य गदमिति पुंपुवद्भावं वर्णयन्ति । जहीति जहातेः प्रयोगश्च

तत्र इदं वक्तव्यं, कोऽयं पुंपुवद्भावो नाम सामानाधिकरण्ये किं किकिं चोपसर्जनस्य

स्त्रीप्रत्ययस्य ह्रस्वत्वं किंवा द्वन्द्वाऽधिकारे नपुंसकत्वात् ह्रस्वत्त्वं, नाऽसामानाधि-

करण्याभावाद्यः सामानाधिकरण्यं हि खलु पदानां पदयोर्वा विधीयते न तु

एकपादे । अत एव न द्वितीयतृतीयौ द्वित्रिपदाश्रितस्य समासस्याऽभावात्

चतुर्थ:थः प्रकारोऽस्त्येव, अत्र गदशब्दस्य पुंस एव पुपुंवद्भावः प्रतिपाद्यमानो न

विचारचारुतामारचयति, तस्मात्स्त्रियाः पुंवद्भाव इत्यभिप्रेतः, तत्रभवतां एतदपि
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy