2023-03-13 13:35:00 by ambuda-bot
This page has not been fully proofread.
पद्याङ्क २१ व्याख्या ]
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
[ ६१
कुं० वृ० - भवानी भवपत्नी जयति सर्वोत्कर्षण प्रवर्तते, किंभूता व्यापा-
दितारि: व्यापादितो हतोऽरिर्यया सा तथोक्ता । पुन: किंविशिष्टा विजयया
भवानीसख्या व्रीडां लज्जां नीयमाना प्राप्यमाणा । कथंभूतया विजयया, सुरान्
इन्द्रादीन् इति वक्ष्यमाणं ब्रवन्त्या, किंविशिष्टान् सुरान् त्यक्तहेतीन् त्यक्ता प्रस्ता
तय युधानि यैस्ते तथा तान् । इतीति किं, हे शक ! हे अनशने ! न विद्यते
शनिर्वत्रं यस्य सोऽनशनिः, तस्य सम्बोधनं, हे अनशने ! त्वं असून् प्राणान् न
जहासि न त्यजसि (23a) अत्र नकारः काकूक्तो तदभिद्योतनार्थं कथमित्यध्याह्रियते
कथं न जहासि ? तव प्राणत्यागो युक्तः । किं कृत्वा, ईदृक् अशनित्यागपलायन-
लक्षणं कर्म्म कृत्वा, इन्द्रो वज्री इति असाधारणमुपलक्षणमिन्द्रस्य । यथा चक्र
विष्णु: असाधारणे उपलक्षणे गते प्राणा यान्त्येव, अन्योऽपि गर्हितं कर्म कृत्वा
अनशने भोजनपरित्यागे प्राणांस्त्यजति । 'शक्लृ शक्तौ इति प्रकृत्यर्थविकारे
शक्रस्य तत् अशक्तसदृशं कर्म्म कृत्वा भोजनपरित्यागेन प्राणपरित्यागो न्याय्यः;
एवं शऋमुपालभ्य द्रव्येशमुपालब्धुकामा उपत्यन्तरमारचयति, हे द्रव्येश ! हे
अगद ! न विद्यते गदा यस्य स अगदः तस्य सम्बोधनं, हे अगद ! अत्र अग (द ) -
स्येति षष्ठचन्तस्यापि अगदशब्दस्य व्याख्यानसौकर्यात् सुखावबोधार्थं अर्थ-
वशाद्विभक्तिपरिणाम इति कृत्वा संक्षिप्तिराक्षिप्यते । हे अगद ! स्थाणुकण्ठे
वर्त्तमानं गदं हरगले वर्तमानं गदं विषस्वरूपं रोगं जहि नाशय, यतोऽगदस्य
श्रोषधस्य अयमेव उपयोगः यत् औषधं रोगहारि भवति, अत्र श्रौषधस्य
अज्ञानिनो नियोगाभावात्, औषधिनोरभेदोपचारवृत्या अगदशब्देन धनदः प्रतीयते,
अथवा मत्वर्थीयोऽत्राकारः, अगदिना इत्यर्थ: । अतो हे अगद ! हे द्रव्येश !
स्थाणुस्तव मित्रं स्वामी च अतस्तद्गले गदं जहि, यतस्त्वं द्रव्येशः स तु स्थाणुः,
तिष्ठतीति स्थाणुः, अतस्तव अयं पदोऽपयोग: 'समुद्गद्योपनीतेषु साहाय्यायोप-
कल्पते' इति व्यासस्मरणात् । अत्राऽभियुक्ताः केचनागदमिति, गदां स्थाणु
कण्ठे जहि मुञ्च, तत्र हेतुर्वदति, अन्योऽपि श्रान्तः सन् गदां स्थाणी कीलके
मुञ्चति । गदाशब्दस्य गदमिति पुंवद्भावं वर्णयन्ति । जहीति जहातेः प्रयोगश्च
तत्र इदं वक्तव्यं, कोऽयं पुंवद्भावो नाम सामानाधिकरण्ये किं कि चोपसर्जनस्य
स्त्रीप्रत्ययस्य ह्रस्वत्वं किंवा द्वन्द्वाऽधिकारे नपुंसकत्वात् ह्रस्वत्त्वं, नाऽसामानाधि-
करण्याभावाद्यः सामानाधिकरण्यं हि खलु पदानां पदयोर्वा विधीयते न तु
एकपादे । अत एव न द्वितीयतृतीयौ द्वित्रिपदाश्रितस्य समासस्याऽभावात्
चतुर्थ: प्रकारोऽस्त्येव, अत्र गदशब्दस्य पुंस एव पुवद्भावः प्रतिपाद्यमानो न
विचारचारुतामारचयति, तस्मात्स्त्रियाः पुं॰वद्भाव इत्यभिप्रेतः, तत्रभवतां एतदपि
T
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy